________________
१५४
समराङ्गणसूत्रधारे न पक्षराजिवसिंहकर्णकुमारघण्टाः समरालपल्लीः । न प्रस्खलांधानि नचैव पत्राण्यायोजयेद् वेश्मसु मङ्गलार्थी ।। ५६॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
गृहद्रव्यप्रमाणानि नामाष्टाविंशोऽध्यायः ॥
अथ शयनासनलक्षणं नाम एकोनत्रिंशोऽध्यायः ।
इदानीमभिधास्यामः शयनासनलक्षणम् । शुभाशुभपरिज्ञानं येन सम्यक् प्रजायते ॥ १ ॥ मैत्रे मुहूर्ते पुष्यस्थे शीतरश्मी शुभेऽहनि । सम्पूज्य देवताः सम्यक् कारम्भ समाचरेत् ॥ २ ॥ वृक्षास्तत्र प्रशस्यन्ते चन्दनस्तिनिशोऽर्जुनः । तिन्दुकः सालशाकी च शिरीषासनधन्वनाः ॥३॥ हरिदुर्देवदारुश्च स्यन्दनोको सपनको । श्रीपर्णी दधिपर्णश्च शिंशपान्येऽपि ये शुभाः ॥ ४ ॥ गृहकर्मणि ये नेष्टा वृक्षास्तेऽत्रापि निन्दिताः । हेम्ना रूप्येण चानद्धा गजदन्लेन वा शुभा ॥५॥ आरकूटेन वा नद्धा शय्या कार्या विचक्षणः । पूर्वच्छिन्नं यदा दारु शयनासनहेतवे ॥ ६ ॥ आदीयते तदारम्भे निमित्तान्युपलक्षयेत् । दध्यक्षतान् पूर्णकुम्भ रत्नानि कुसुमानि वा ॥ ७ ॥ सुगन्धद्रव्यवस्त्राद्यान् मत्स्याश्वयुगलं तथा । मत्तवारणमन्यांश्च शुभान् वीक्ष्यादिशेच्छुभम् ॥ ८ ॥
१. 'रा', २. 'नरैव' ख, ग, पाठः। ३. 'शा' का. पाठः । ४. 'भाः । सर्वदन्तमयी शय्या हेमरत्नान्विता शुभा । गृ' क. ख. ग. पाठः।
"Aho Shrut Gyanam"