SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ गृहद्रव्यप्रमाणानि नामाष्टाविंशोऽध्यायः । १५३ तुलान विधातव्या प्रतिमोकस्य विस्तृतिः । पट्टस्योपरि कण्ठः स्याद भूपितो रूपकर्मणा ॥ ४४ ॥ वेदिका(जीजा)लरूपाद्या नियूहे संप्रशस्यते । विधातव्या च सच्छत्रा निवद्धार्णवापिका ॥ ४५ ॥ स्तम्भपट्टा(शुस्तु) विस्तीणीन् सपादास्तत्र कल्पयेत् । तुलापिण्डाः समाः कायाः सङ्ग्रहः सुदृढेयुताः ॥ ४६॥ वेदिकाजालसम्पन्नं तलं कार्य मनोरमम् । भूमीभूमी भवेत् तच्च द्वादशांशविवर्जितम् ।। ४७ ।। प्रणाल्यः सर्वतः कार्या मूलग्राहाग्रनिर्गमाः । दण्डाद्यं गृहेषु स्याज्ज्ञेयं तच्च चतुर्विधम् ॥ ४८ ।। भूताख्यं तिलकं तद्वन्मण्डलं कुमुदं तथा । गृहच्छाधेषु तेषु स्यादुच्छ्रायोऽपि चतुर्विधः ॥ ४९ ॥ क्षेत्रतर्यांशतः कार्यो दैर्येणच्छाद्यदण्डकः । तदर्ध मुष्टिकायामो दण्डव्यंशेन लम्बना !! ५० ॥ चतुरश्रं समं कान्तं मधुरं सुदृढं धनम् ।। वेश्मनां छाद्यकं कार्य भूतं नाम्ना सुपूजितम् ॥ ५१ ॥ तस्यैवाष्टादशो भागो यदा स्यादुच्छ्येऽधिकः । उदयस्तिलको नाम शस्तः स गृहकर्मणि ॥ ५२ ॥ द्वाभ्यामुच्चतरः पूर्वो मण्डलः कुमुदस्त्रिभिः । अभित्ति(स्थेस्थं) भवेच्छा(येय) चन्द्ररेखाविभूषितम् ॥ ५३ ॥ गुणरागान्विता भित्तिर्यद्वा धनचयात्मिका । तत्रच्छाद्यं भवेचान्यदवधारणसंज्ञितम् ।। ५४ ॥ सिंहकर्णकपोतालीघण्टाकर्णार्धपक्षगाः । ध्वजच्छत्रकुमारांश्च गृहेषु परिवर्जयेत् ॥ ५५ ॥ १. 'का' ख. ग. पाठः। २. 'णकवा' ग. पाटः। ३. 'ला' ख. ग. पाठः। ४. 'च्छाद्यगृ' ग. पाठः । ५. 'ण्डं', ६. 'इमसुच्छा', ७. 'रतः', ८. न्द्रे', ९.'अ' ख, ग, पाठः। "Aho Shrut Gyanam" |
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy