________________
१५२
समराङ्गणसूत्रधारे घटिका पुष्पमालाभिः पल्लवश्वोपशोभिता । छेदभागः समः कार्यो वहिर्भागविवर्जितः ॥ ३०॥ घटपल्लवको नाम स्तम्भोऽयं परिकीर्तितः । विहितो वेश्मनामेष स्वामिनः श्रेयसे भवेत् ॥ ३१ ॥ कुबेरो वा विधातव्यः पोडशाश्रक्रियान्वितः । ऊर्ध्वतः पल्लवाकीर्णो जङ्घास्य चतुरश्रिका ।। ३२ ॥ श्रीधरश्च भवेद् वृत्तः कल्पनास्य कुबेरवत् । एवं गृहाणां चत्वारः स्तम्भा लक्ष्मभिरीरिताः ॥ ३३ ॥ स्तम्भमूलस्य विस्तृत्या तलप(द)स्य विस्तृतिः । सपादया विधातव्या बाहुल्यं पादहीनया ॥ ३४ ॥ स्तम्भेन तुल्यं विस्तारे वाहल्ये पदसम्मितम् । हीरग्रहणमायामे स्तम्भायात् त्रिगुणं भवेत् ॥ ३५ ॥ हीरग्रहणविस्तार भागात् सप्त प्रकल्पयेत्(?) । तत् स्यात् सृष्टोत्तरं भागं भागेनेष्टं प्रवेशनम् ॥ ३६ ॥ तस्याधस्तात् त्रिकण्टेन त्रिभागं लम्बितेन च । लिखेदुभावर्धचन्द्रौ पार्श्वयोरुभयोरपि ।। ३७ ॥ खल्वं कृत्वा ततो मध्यं भागद्वयमधोगतम् । कुर्यात् त्रिकण्टकं कान्तं तुम्बिकामथ लम्बिकाम् ।। ३८ ।। द्वयोर्मध्येऽपरं भूयो द्विभागस्थं च कण्टकम् । तुम्बिको लम्बमानां वा पत्रजातिविभूषिताम् ।। ३९ ।। तस्याश्चापरतीरं स्यात् पद्मपच्या विभूषितम् । तलपट्टसमः पेद्रो विस्तारात् पिण्डतोऽपि च ॥ ४० ॥ पट्टव्यंशेन तीरे स्यात् पट्टपिण्डानिर्गमः । स्तम्भाग्रेण समा कार्यो विस्तारस्थौल्यतस्तुला ।। ४१ ॥ तदर्धेन जयन्तीनां कर्तव्ये पिण्डविस्तृती। ताभ्यो विधेयाः पादोनाः सन्धिपाला यदृच्छया ॥ ४२ ॥ नियृहेषु च ये पट्टाः पादौनांस्तांस्तु कारयेत् । तुलापट्टाश्च पादोनास्तदर्धन जयन्तिकाः ॥ ४३ ॥
"Aho Shrut Gyanam"