________________
गृहद्रव्यप्रमाणानि नामाष्टाविंशोऽध्यायः । १४९ निसृष्टसौधयैर्वा(?) स्यादेकस्यां वा यदा दिशि । नन्दा भद्रा जया पूर्णा क्रमेण स्युः सभास्तदा ।। ४ ।। पड्भागभाजिते क्षेत्रे कर्णभित्तिं निवेशयेत् । सभा स्याद् भाविता नाम सप्राग्नीवात्र पश्चमी ॥ ५ ॥ स्तम्भान् पट्त्रिंशदेतासु पञ्चस्वपि निवेशयेत् । स्तम्भान् प्राग्नीवसंवद्धान् पृथगेभ्यो विनिर्दिशेत् ।। ६ ॥ दक्षेति षष्ठी परितस्तृतीयालिन्दवेष्टिता । प्रवरा सप्तमी द्वारयुक्तैया परिकीर्तिता ।। ७॥ प्राग्नीवद्वारसंयुक्ता विदुरेत्यष्टमी सभा । सभानामिदमष्टानां लक्षणं समुदाहृतम् ॥ ८ ॥ इत्यष्टानां लक्ष्म सम्यक् सभाना
मेतत् प्रोक्तं दि भवालिन्दभेदात् । तद्वद् द्वारालिन्दसंयोगतश्च
ज्ञातेऽत्र स्याद् भूभृतां स्थानयोगः ॥९॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारपिरनागिन वास्तुशास्त्रे
समाष्टकं नाम सप्तविंशोऽध्यायः॥
अथ गृहद्रव्यप्रमाणानि नामाष्टाविंशोऽध्यायः ।
उपादेयानि यान्यत्र परित्याज्यानि यानि च । गृहद्रव्यप्रमाणानि तानीदानी प्रचक्ष्महे ॥ १ ।। द्वारस्य गृहविस्तारैईस्ततुल्यामुलैभवेत् । उच्छ्रायः सप्तभियुक्तेर्विस्तृतिस्तु तदर्धतः ॥२॥ प्रकल्पयेद् गृहद्वारं क्रमेणैव कनीयसा(म्) । त्रैराशिकेन मध्यानां द्वादशांशं परित्यजेत् ।। ३ ॥
"Aho Shrut Gyanam"