________________
समराङ्गणसूत्रधारे लघुस्वरूपदलने सैकार्थे करणे गुरुः । यावदिष्टपदाप्तिः स्याल्लघवोऽलिन्दकोदयः ।। ७५ ॥ कृत्वा छन्दःसमुद्दिष्टं तदन्ते लघुनि द्विकम् ।। न्यसेदेकं गुरूणां च द्विगुणं द्विगुणं ततः ।। ७६ ॥ व्यत्ययाल्लधुनः स्थाने द्विगुणादेककं गुरोः । कुर्यात् तमाद्यस्थानाङ्कसङ्ख्यं नष्टे गृहं भवेत् ।। ७७ ।। प्राप्तस्यैकं कोष्ठमेकैकद्धया न्यस्थेदूवं पङ्क्तयो यावदिष्टाः ।
इष्टानेकादीलिखेदानुपूा कर्णेनाधः शून्यरूये च दद्यात् ।। ७८ ॥ कर्णस्थाङ्कश्लेषतोऽङ्के भवेद् यस्तं विन्यस्येत् कोष्ठकेषु क्रमेण । उद्दिष्टाङ्को भद्रसङ्ख्यानि मध्ये याभ्यः कर्णश्लेपतो मूषिकास्ताः ॥७९॥ एकादिपु द्विगुणितेष्विह यावदिष्टमूपाक्रमव्युपहितेष्वथ तेषु विद्यात् । उद्दिष्टवेश्मकृतनिर्गममार्गमूपासत्काङ्कसैकयुतिनिर्मितसङ्ख्यमोकः ।। ८० ॥ इति महाराजाधिराजश्रीभोजदेवनिरचिने समाराङ्गणमूत्रधारापरनाम्नि वास्तुशास्त्रे आयव्ययनक्षत्रराशिफलतद्योगताराङ्कयोनितच्छन्दोगनिर्णयो नाम
पड्विंशोऽध्यायः॥
अथ सभाष्टकं नाम सप्तविंशोऽध्यायः ।
नन्दा भद्रा जया पूणा सभा स्याद् भाविता तथा । दक्षा च प्रवरा तद्वद् विदुरा चाष्टमी मता ॥१॥ चतुरश्रीकृते क्षेत्रे ततः षोढा विभाजिते । मध्ये पदचतुष्कं स्यात् सीमालिन्दस्तु भागिकः ॥ २ ॥ तद्वाद्योऽलिन्दकस्तद्वद् भवेत् प्रतिसराभिधः । माग्ग्रीवाख्यस्तृतीयश्च बहिः क्षेत्राच्चतुर्दिशम् ॥ ३ ॥
१. 'भि' ख, पाठ
"Aho Shrut Gyanam"