SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ आयादिनिर्णयो नाम पडिशोऽध्यायः । त्रिघनेन भजेच्छेपं नक्षत्रेऽष्टहते व्ययः । पिशाचो राक्षसो यक्ष इति त्रेधा व्ययो मतः ॥ ३६ ॥ साम्याधिक्यन्यूनताभिरायतः स्याद् यथाक्रमम् ।। व्ययं क्षेत्रफले क्षिप्त्वा गृहनामाक्षराणि च ॥ ३७ ॥ भागं त्रिभिहरेत तत्र यच्छेषं सोऽशको भवेत् । चतुरङ्गो यथा मन्त्रो मुख्यो लग्ने नवांशकः ॥ ३८ ॥ तथा गृहादिषु प्रोक्तं मुख्यत्वेनांशकत्रयम् । इन्द्रो यमश्च राजा च त्रयो नामभिरंशकाः ॥ ३९ ॥ स्वनामतुल्यफलदा विज्ञातव्यास्त्रयोऽपि च । गणयेत् स्वामिनक्षत्राद् यावत् स्याद् भवनस्य भम् ॥ ४० ॥ नवभि जिते तस्मिञ् शेषं तारा प्रकीर्तिता । जन्मसम्पद्विपत्क्षेमपापसाधक धनीः ।। ४१ ।। मैत्रीपरममैत्र्यौ च पाहुः संज्ञाः समाः फले । त्रिसप्तपञ्चमीभतुग्रहतारा विवजेयेत् ४२ ॥ आद्याद्वितीयाप्टम्यस्तु ताराः स्युरिह मध्यमाः । तथा ऋक्षेऽपि चानिष्टे चन्द्रेऽष्टमगतेऽपि च ॥ ४३ ॥ नयते दुरितं तारा चतुःपण्णवनी(?)नृणाम् । सुरराक्षसमयाख्या कक्षाणां स्थुर्गणास्त्रयः ॥ ४४ ॥ यद्गणर्यो भवेद् भर्ता तद्गणसं गृहं शुभम् । मृगाश्विरेवतीस्वात्यो मेत्रं पुष्यपुनर्वम् ।। ४५ ।। हस्तः श्रवण इत्येष देवाख्यो नवको गणः । विशाखा कृत्तिकाश्लेषा नैर्ऋतं वारुणं मघा ॥ ४६ ।। चित्रा ज्येष्ठा धनिष्ठेति नवको राक्षसो गणः । आद्राभरण्यो रोहिण्यो?ण्या) तिस्रः पूर्यास्तथोत्तराः ॥ ४७ ॥ इति नक्षत्रनवकं विज्ञेयं मानुपे गणे । गणसाम्यं शुभा तारा यस्याया तृ?च)व्ययोऽल्पकः ।। ४८ ।। १. 'स्माच्छेप', २. '. ३. यस्तिस्नः' ख. पाठः। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy