________________
१४४
समराङ्गणसूत्रधार गजे भद्राणि दृश्यन्ते वाले नु मरणं ध्रुवम् । वृषस्थाने गजं कुर्यात् सिंहं कृपभहस्तिनीः ।। २२ ॥ न कुर्याद् वृषमन्यत्र शस्यते सर्वतो ध्वजः । कल्याणं कुरुते सिंहो ब्राह्मणस्य विशेषतः ॥ २३ ॥ क्षत्रियस्य गजः शस्तो पणः शस्यते विदाः । शूद्रस्य ध्वज एवैकः शस्यतेऽर्थप्रदः सदा ॥ २४ ॥ एवमेते गृहादीनामायाः सर्वे प्रकीर्तिताः । प्रदद्यादासने सिंहमातपत्रेपु तु ध्वजम् ।। २५ ॥ चिह्नेष्वपि च सर्वेषु चामरव्यजनादिपु । सिंहं गजं वा शस्त्रेषु रथेषु कवचेषु च ॥ २६ ।। सार्यश्वेगजपयाणेष्चिमं वृषभमेव च ।। अर्थधारणपात्रेषु शयनेषु मतङ्गजम् ।। २७॥ याने च वाहने चव मतिमान योजयेद् गजम् । प्रासादप्रतिमालिङ्गपीठमण्डपवेदिषु ।। २८ ।। कुण्डेषु च ध्वजं दद्याद् देवोपकरणेषु च । आयो गृहवदुद्वाहवेदीमण्डपयोर्भवेत् ।। २९ ॥ महानसे वृषं दद्याजलाधारे जलाशये । स्थाल्यां भोजनपात्रे च कोष्ठागारेऽन्नधारणे ॥ ३० ॥ एतद्गृहे तथा दद्याद गृहोपकरणेषु च । वृषभं गजशालायां प्रदद्याद् गजमेव वा ।। ३१ ।। वर्ष तुरगशालासु गोशालागोकुलेषु च । गजाश्वपशालासु सिंहं यत्नेन वजेयेत् ॥ ३२॥ अपमानां खरध्वाङ्क्षधूमश्वानः शुभावहाः । धूमोऽग्निजीविनां शस्तो ध्वाक्षः सन्यासिनां हितः ॥ ३३ ॥ स्वगगानां श्वयाकानां स्ववेश्मानां खर: शुभः। नटनर्तकवेश्मेषु पण्यस्त्रीणां खरः शुभः ॥ ३४ ॥ कुलालरजकादीनां तथा गदेभ जीविनाम् । गृहादिषु क्षेत्रफलं गणयदष्टभिर्भजेत् ।। ३५ ।। १. 'शाम', २. 'स्व' क, पाठः। ३. 'गु ख. पाठः !
"Aho Shrut.Gyanam"