________________
समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः। १११ लक्षं तथा सहस्राणि जायन्ते पञ्चविंशतिः । शतानि च द्वादशभिनेव तद्वन सप्ततिः ॥ १५० ॥ सहस्राणि निकेतानां सख्यया सप्तसप्ततिः । सविंशतिः पञ्चशती त्रयोदशभिरीरिता ॥ १५१॥ अष्टात्रिंशत्सहस्राणि तथा सप्तशतानि च । स्युश्चतुदेशभिः षष्टया वेश्मनामन्वितानि च ।। १५२ ॥ स्यात् पञ्चदशसाहस्री शतैः पञ्चभिरन्विता मूपाभिः पञ्चदशभिश्चत्वारि भवनानि च ॥ १५३ ।। स्युः सहस्राणि चत्वारि तद्वदष्टौ शतानि च । तथा पोडशमूपाणां चत्वारिंशञ्च पञ्च च ।। १५४ ॥ सहस्रं सप्तदशभिः शतमेकं च वेश्मनाम् । चत्वारिंशञ्च वेश्मानि भवन्ति परिसङ्ख्यया ।। १५५ ॥ शतं नवत्यभ्यधिकमष्टादशभिरुच्यते । भवत्येकोनविंशत्या भूपाणां वेग्मविंशतिः ।। १५६ ।। एकमेव गृहं मूषाविंशतेर्वहनाद् भवेत् । सङ्ग्येयं दशशालानां मूपाभेदग्रचारतः ॥ १५७ ॥ प्रयुतं चत्वार्ययुतान्यटसहस्राणि पञ्च च शतानि ।। षट्सप्ततिहाणि च दशशालेचेकसङख्येयम् ॥ १५८ ॥ चतुःशालादिगेहानि यावन्त्यादशशालतः । चतुर्गुणानि प्रत्याशं नान्यलिन्देन निर्दिशेत् ।। १५९ ॥ एकद्वित्रिचतुःशालवेश्मनां सद्धमान्मिथः । गृहाणि दशशालान्तान्येवमुक्तानि विस्तरात् ॥ १६० ॥ समारभ्य चतुःशा(ललं) दशशालान्तवेश्मनाम् । सख्यामिदानीमैक्येन सर्वेपामभिदध्महे ॥ १६१ ॥ मूषाभेदेन लक्षाणि स्स्त्रयोदश वेश्मनाम् । सहस्राण्यष्टनवतिस्तथा वेश्मानि षोडश ।। १६२ ।। मृषासंस्थानभेदेन भिन्नानां वेश्मनां पुनः । जायन्ते कोटिशो भेदा यस्मानोक्तानि तान्यतः ॥ १६३ ॥
"Aho Shrut.Gyanam"