SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे वेश्मनां नवशालानां चत्वारिंशच्चतुर्युता । स्यात् समानचतुःशालद्वययोगात् समासतः ॥ १३६ ॥ एकेन च द्विशालेन दशशालचतुष्टयम् । सर्वतोभद्रमुख्यानां मिथो द्वितययोगतः || १३७ ॥ एकद्विशाल योगाच्च चत्वारिंशत् तथापरा । तुल्यत्रिशा लत्रितयमे कशालयुतं यदा ।। १३८ || साधारणं तदान्यत् स्याद् दशशालचतुष्टयम् । तुल्ये त्रिशाले युज्येते सर्वभद्रादिभिर्यदा ।। १३९ ॥ तदान्या दशशालानां समुत्पद्येत विंशतिः । तेष्वेकमवहन्मृषं विंशतिपयैकया ॥ १४० ॥ वहन्त्या स्यादुभाभ्यां तु नवत्यभ्यधिकं शतम् | चत्वारिंशानि तिसृभिः शतान्येकादश ध्रुवम् ॥ १४१ ॥ चत्वारि स्युचतसृभिः सहस्राणि शताष्टकम् । चत्वारिंशच्च गेहानि जायन्ते पञ्चभिः सह ॥ १४२ ॥ पञ्चभिस्तु सहस्राणि भूषाभिर्दशपञ्च च । जायन्ते सचतुष्काणि तथा पञ्चशतानि च ।। १४३ ॥ अष्टात्रिंशत्सहस्राणि षड्भिः सप्त शतानि च । षष्टयुत्तराणि जायन्ते वेश्मनां परिसङ्ख्यया || १४४ ॥ गृहाणां स्युः सहस्राणि सप्तभिः सप्तसप्ततिः । शतपञ्चकमन्यच्च भवेद् विंशतिसंयुतम् ॥ १४५ ॥ लक्षमेकं सहस्राणि पञ्चविंशतिरष्टभिः । शतानि नव जायन्ते सप्तत्यभ्यधिकानि च ॥ १४६ ॥ लक्षमेकं सहस्राणि सप्तषष्टिः शतानि च । नव स्युः षष्टियुक्तानि नवमूषाप्रचारतः ॥ १४७ ॥ लक्षं चतुरशीतिश्च सहस्राणि शतानि च । सप्त स्युर्दशभिस्तद्वत् पञ्चाशच्च षडुत्तरा ॥ १४८ ॥ लक्षमेकं सहस्राणि सप्तषष्टिश्च वेश्मनाम् । शतानि चैकादशभिः षष्ट्यानि नव निर्दिशेत् ॥ १४९ ॥ १४० "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy