SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १३९ समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । तिसृभिः स्युः शतान्यष्टौ सह पोडशभिगृहैः । षष्ट्या सहस्रत्रितयं ताभिश्वतसभिभवेत् ।। १२३ ।। पञ्चाशीतिशतान्यष्टषष्टियुक्तानि पञ्चभिः । वहन्तीभिः प्रजायन्ते मूषाभिरिह वेश्मनाम् ।। १२४ ॥ अष्टादशसहस्राणि तथा पञ्चशतानि च । चतुःपष्टिं च गेहानि मूषाभिः पभिरादिशेत् ॥ १२५ ।। एकत्रिंशत्सहस्राणि सहितान्यष्टभिः शतैः । चतुर्विंशतियुक्तानि मूपाभिः सप्तभिर्विदुः ॥ १२६ ॥ चत्वारिंशत्सहस्राणि त्रिसहस्री च वेश्मनाम् । शतानि चाष्टपञ्चाशत् सप्त मूषाभिरष्टभिः ॥ १२७ ।। चत्वारिंशत्सहस्राणि सहस्राण्यष्ट पदशती । विंशतिं चैव मूपाभिहाणां नवभिर्विदुः ॥ १२८ ॥ चत्वारिंशत्सहस्राणि सहस्रत्रयमोकसाम् । मूषाभिदेशभिः साष्टपञ्चाशच्छतसप्तकम् ॥ १२९ ॥ एकत्रिंशत्सहस्राणि चतुर्विंशच्छताष्टकम् । मृपाभिरेकादशभिग्रहाणां मुनयो जगुः ॥ १३० ॥ अष्टादशसहस्राणि तथा पञ्चशतानि च । धाम्नां द्वादशमूषाणां चतुःषष्टिश्च जायते ॥ १३१ ॥ भवन्त्यष्टौ सहस्राणि तथा पञ्चशतानि च । स्यात् त्रयोदशमृषाणामष्टषष्टिश्च वेश्मनाम् ।। १३२ ॥ स्याच्चतुर्दशमूपाणां त्रिसहस्री सपष्टिका । मूपाभिः पञ्चदशभिः पोडशाष्टशती तथा ॥ १३३ ॥ धाम्नां षोडशमूपाणां त्रिपञ्चाशच्छतं भवेत् । स्युः सप्तदशमूपाणि वेश्मान्यष्टादश स्फुटम् ।। १३४ ॥ मूषाभिरष्टादशभिर्वेश्मैकं तद्विदो विदुः । लक्षद्वयं सहस्राणि द्वापष्टिश्च शतान्विता ॥ १३५॥ ९. 'ष्टं' ख. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy