________________
१३८
समराङ्गणसूत्रधारे एकादशसहस्राणि तथा शतचतुष्टयम् । चत्वारिंशच्च गेहानि नवभद्राणि सख्यया ।। ११२ ॥ अष्टौ स्युर्दशभद्राणां सहस्राण्यष्टभिः सह । तथैकादशभद्राणां सङ्ख्या स्यात् पञ्चभद्रवत् ।। ११३ ॥ अष्टादशशतानि स्युर्विंशतिर्भवनानि च । इति द्वादशभद्राणां सङ्ख्या भवति वेमनाम् ॥ ११४ ॥ स्यात् त्रयोदशभद्राणां षष्टयग्रं शतपञ्चकम् । स्याच्चतुर्दशभद्राणां विंशत्यभ्यधिकं शतम् ।। ११५ ॥ वेश्मानि स्युस्तथा पञ्चदशभद्राणि षोडश । एकमेव हि विज्ञेयं गृहं पोडशभद्रकम् ।। ११६ ।।
पञ्चषष्टिसहस्राणि पत्रिंशं शतपञ्चकम् । गृहाणामष्टशालानां भवत्येकत्र सङ्ख्यया ॥ ११७ ॥ स्यात् समानचतुश्शालद्वययोगात् समासतः । एफैकशालयोगाच नवशालचतुष्टयम् ॥ ११८ ॥ सर्वतोभद्रमुख्यानां मिथो द्वितययोगतः । एकेकशालयोगाच्च चत्वारिंशत् तथापरा ॥ ११९ ।। तुल्यत्रिशालत्रितययोगेन च चतुष्टयम् । गृहाणां नवशालानामन्यदुक्तं पुरातनः ।। १२० ।। संस्थानमुक्तं गेहानां नवशालात्मनामिदम् । मूषावहनभेदेन तत्सङ्ख्या कथ्यतेऽधुना ॥ १२१ ।। अवहन्मूपमेकं स्याद् वहन्त्याष्टादशैकया । द्वाभ्यां शतं त्रिपञ्चाशदधिकं वेश्मनां भवेत् ॥ १२२॥ १. 'सहस्राणि विश', २. भद्राणां भ', ३. त्य' ख. पाठः ।
। अष्टशालगृहा- गृह १ : १६१२०५६०१८२० ४३६८८००८/११४४०१२८७० णामैक्यं६५५३६ भद्र० १ २ ३ ४ ५ ६ ७ भद्र ८ षोडशगुरूमा
भद्र १६, १५ १४ १३ १२. १११० ९ भद्र . प्रस्तारे
इति टिप्पणं दत्तमस्ति ।
"Aho Shrut.Gyanam"