________________
समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १३७ यचतुर्दशभिर्भट्टैरेकमेव हि वेश्म तत् । इत्येषां सप्तशालानां सहस्राण्यत्र पोडश ॥ ९९ ॥ एकोनत्रिशती तद्वदशीतिश्चतुरुत्तरा । इदानीमष्टशालानि भवनान्यभिदध्महे ॥ १०॥ बहिरन्तश्चतुःशालद्वयादेकं समासतः । अन्यानि सर्वभद्रादिद्वयसंयोगतो दश ॥ १०१॥ एकोनत्रिंशता क्षेत्रं चतुरश्रं विभाजयेत् । भागद्वयेन मूषा स्याच्छाला भागचतुष्टयात् ।। १०२ ॥ कुर्वीत पञ्चभिर्भागैस्तन्मध्येऽङ्गणवापिकाम । चतस्रश्च प्रतिदिशं मूषाः स्युस्तत्र वास्तुनि ।। १०३ ॥ शालयोनं सप्तशालं पट्शालं द्वितयोज्झितम् । त्रिहीनं पञ्चशालं स्यादष्टशालमिदं कचित् ॥ १०४ ॥ तुल्यविशालद्वितयं द्विशालेन युतं यदा । अष्टौ तदाष्टशालानि गृहाण्यन्यानि निर्दिशेत् ।। १०५ ।। मूपाव्यूढिवशादष्टशालानामथ कथ्यते । सख्या तत्र विभद्रं स्यादवहन्मूषसंज्ञितम् ॥ १०६॥ पोडशैवैकभद्राणि द्विभद्राणां शतं विदुः । विशं षष्टयाँ त्रिभद्राणां विज्ञेयं शतपञ्चकम् ॥ १०७॥ अष्टादशाहुर्विंशानि चतुर्भद्रशतानि च । पञ्चभद्रसहस्राणि चत्वारि स्युः शतत्रयम् ॥ १०८ ॥ अष्टपष्टिश्च गेहानि तानि सम्यग् विभावयेत् । सहस्राष्टकमष्टौ च षड्भद्राणि प्रचक्षते ॥१०९ ॥ एकादशसहस्राणि तथा शतचतुष्टयम् ।। जानीयात् सप्तभद्राणि चत्वारिंशद् गृहाणि च ॥ ११० ॥ द्वादशैवाष्टभद्राणां सहस्राणि शताष्टकम् । सप्तत्याभ्यधिकं प्राहुर्वास्तुविद्याविशारदाः ॥ १११ ॥
१. 'एकात्र त्रि', २. ‘त्र चतु' क. पाठः । ३. 'टयं' क., 'टं । ख. पाठः। ४. । ख. पाठः ।
"Aho Shrut Gyanam"