________________
१३६
समराङ्गणमूत्रधारे हिरण्यनाभेन युते स्वस्तिके श्रीकरण्डकम् । सुक्षेत्रेण युते तस्मिन् श्रीभाण्डागारसंज्ञितम् ॥ ८७ ॥ चुल्लीयुते श्रीनिलयं भवेन्नरपतिप्रियम् । स्वस्तिकस्य यदा योगः पक्षनेन प्रजायते ।। ८८ ।। श्रीनिकेतनसंज्ञं स्यात् तदा नृपतिमन्दिरम् । उक्तानि सप्तशालानि नामलक्षणयोगतः ।। ८९ ॥ सर्वाणि सार्वभौमानां नृपाणां मन्त्रिणामपि । भवन्ति च सतां वित्तयशोविजयवृद्धये ॥ ९० ।। एकादिमूपावहनप्रभेदादथ वेश्मनाम् । एतेषां सप्तशालानां ब्रूमः संख्यामनुक्रमात् ॥ ९१ ॥
वहत्येकापि नो यत्र मूषैकं तद भवेद् गृहम् । विभद्रमेकभद्राणि विजानीयाचतुर्दश ।। ९२ ।। द्विभवेश्मनां सैका नवतिः परिकीर्तिता । भवनानां त्रिभद्राणां चतुःषष्टिः शतत्रयम् ।। ९३ ॥ सहस्रमेकाभ्यधिकं स्थाचतुर्भद्रवेश्मनाम् । भवतः पञ्चभद्राणां वे सहस्ते द्विसंयुते ।। ९४ ।। षड्भद्राणां सहस्राणि त्रीणि त्रीणि गृहाणि च । द्वात्रिंशतां चतुस्त्रिंशत् सप्तभद्रशतानि च ॥ ९५ ।। अष्टभद्राणि षड्भद्रसह्यातुल्यानि जायते(?)। गृहाणां नवभद्राणां द्वे सहसे तथा द्वयम् ॥ ९६ ॥ सहस्रं दशभद्राणामेकोत्तरमुदाहृतम् । तथैकादशभद्राणां चतुष्षष्टया शतत्रयम् ।। ९७ ॥ सैका द्वादशभद्राणां नवतिर्वेश्मनां भवेत् ।
स्युस्त्रयोदशभद्राणि गृहाणीह चतुर्दश ॥ ९८ ॥ .. 'शानि' ख. पाठः ।
'यत्र यस्यां सप्तशालजातौ एकापि मूषा यद् गृहं न वहति न प्राप्नोति, तदेकं गृह विभद्रे भवेत् ' इति टिप्पणमस्ति ।
--
-...
"Aho Shrut Gyanam"