SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १३५ श्रीप्रदत्तमिति प्राहुस्तदा वेश्म महीभृताम् । एकैकस्य द्विभेदत्वाचत्वारिंशदियं भवेत् ।। ७४i . . एवमत्र प्रकाराः स्युश्चत्वारिंशद युताष्टभिः । यदा त्रिशालं भवनं चतुश्शालेन युज्यते ॥ ७५ ॥ तदापि सप्तशालं स्याचतुर्धेदं समासतः । पञ्चानां राजगेहानां मिलत्येकतमस्य चेत् !! ७६ ।। त्रिशालं स्यात् तदा सप्तशालं विंशतिभेदवत् । हिरण्यनाभ(भो?यो )गेन सर्वतोभद्रमन्दिरम् ।। ७७ ।। श्रीवत्सं जनयेद् वेश्म नरेन्द्राणां हितावहम् । श्रीवृक्षं सर्वतोभद्रे सुक्षेत्रे मिलिते भवेत् ॥ ७८ ॥ चुल्लीयुक्त पुनस्तस्मिन् श्रीपालं नाम जायते । पक्षन्ने सर्वतोभद्रयुक्ते श्रीकण्ठमुच्यते ॥ ७९ ॥ हिरण्यनाभे श्रीवासं वर्धमानयुते भवेत् । श्रीनिवासं तु सुक्षेत्रे वर्धमानेन मिश्रिते ॥ ८ ॥ वर्धमानेन चुल्ल्या च गृहं श्रीभूषणं विदुः ।। पक्षघ्नं वर्धमानेन यदा संयोगमृच्छति ।। ८१ ॥ तदा श्रीमण्डनं नाम जायते भवनोत्तमम् । जाते हिरण्यनाभस्य नन्यावर्तेन सङ्गमे ।। ८२ ।। स्याद् वेश्म श्रीकुलं नाम श्रियः कुलनिकेतनम् । नन्द्यावर्तेन सुक्षेत्रे युक्ते श्रीगोकुलं भवेत् ॥ ८३ ॥ नन्द्यावर्तस्य चुल्ल्याश्च योगे श्रीस्थावरं गृहम् । नन्धावतेस्य पक्षघ्नयोगे कुम्भं प्रजायते ।। ८४ ॥ हिरण्यनाभरुचकयोगे स्याच्छ्रीसमुद्नकम् । श्रीनन्दं नाम सुक्षेत्रे रुचकाख्येन संयुते ॥ ८५ ॥ चुल्ल्यां रुचकयुक्तायां श्रीह्रदं नाम जायते । श्रीधरं नाम पक्षघ्ने भवेद् रुचकसंयुते ॥ ८६ ॥ १. "मा' क, ख, पाउः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy