SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ १३४ समराङ्गणसूत्रधारे श्रीवर्धनं नाम गृहं श्रीयो वृद्धिकरं भवेत् । दण्डं च वर्धमानं च सैकशालं यदा भवेत् ।। ६१ ॥ 2 तदा श्रीसङ्गमं नाम भवेद् भवनमुत्तमम् । यदैकशालं वाताख्यं वर्धमानं च युज्यते ।। ६२ । भवनं श्रीप्रसङ्गाख्यं नृपयोग्यं तदा भवेत् । सिद्धार्थमेकालेन नन्द्यावर्तेन चान्वितम् ॥ ६३ ॥ श्रीभारं नाम भवनं भवेद् भूषालसेवितम् । नन्द्यावर्तस्य योगेन यममूर्यैकशलयोः ॥ ६४ ॥ राज्ञां सुखावहं वेश्म श्रीभारमिति च स्मृतम् । श्रीशैलमेकशाळेन स्यान्नन्यावर्तदण्डयोः || ६५ ॥ योगाद् भोगावहं राज्ञां सप्तशालं गृहोत्तमम् । एकशालस्य योगेन स्यान्नन्द्यावर्तवातयोः ॥ ६६ ॥ श्रीखण्डं नाम भवनं भूभृतां भूतिकृद् भवेत् । सिद्धार्थस्यैकालेन संयोगाद् रुचकस्य च ।। ६७ ।। श्रीपण्डं नामतो वेश्म भवेद् योग्यं महीभृताम् । रुचकस्यैव योगेन यमसूर्यैकशालयोः || ६८ ।। स्याच्छ्रीनिधानं श्रीकुण्डं तस्य दण्डैकशालयोः । वातैकशालरुचकैर्युक्तः श्रीनाममुच्यते ।। ६९ ।। भवनं भूमिपालानां तद् भवेद् भूतिदायकम् । एकशालेन युज्येते सिद्धार्थस्वस्तिके यदा ।। ७० ।। श्री प्रियं स्यात् तदा वेश्म सन्ततं बल्लभं श्रियः । यमसूर्यैकशालाभ्यां स्वस्तिकं युज्यते यदा ॥ ७१ ॥ तदा श्रीकान्तमित्याहुर्भवनं भूभृतां हितम् । एकशालेन संयोगो दण्डस्वस्तिकयोर्यदा ।। ७२ ।। श्रीमतं नामतो वे तदा स्याद् विजयावहम् | वातस्वस्तिकसंयोगमेकशालं यदा व्रजेत् ॥ ७३ ॥ १. 'तु', २, ३. 'स्त्री', ४. 'द्या (१) ', ५. 'घण्टं ना', ६. 'ख' क. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy