SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १३३ समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः। द्वे विशे नवभद्राणां भवनानां शते विदुः पदषष्टिदशभद्राणि तथा द्वादशसख्यया ॥ ४८ । स्युरेकादशभद्राख्यान्येकं द्वादशभद्रकम् । एवं षट्शालगेहानां स्थात् साहस्रचतुष्टयम् ।। ४९ ॥ पण्णवत्यधिकं चूमः सप्तशालानि साम्पतम् । तुल्यं त्रिशालद्वितयमेकशालेन युज्यते ।। ५० ॥ यदा स्युः सप्तशालानि तदा द्वादशसङ्ख्यया । एकशालं द्विशालं च चतुःशालेन युज्यते ।। ५१ ।। यदा तदा सप्तशालमपरं वेश्म जायते । सेकशालं चतुःशालं यममूर्येण संयुतम् ॥ ५२ ।। तदा भवेद विभेदः (१) स्यात् तद्गृहं श्रीप्रदायकम् । वातेन श्रीपदं तद्वद् दण्डेन श्रीप्रदं भवेत् ।। ५३ ।। सिद्धार्थकेन श्रीमालं तद्वदेव प्रजायते । पञ्चानां राजयोग्यानां स्युश्चतुश्शालवेश्मनाम् ॥ ५४॥ सप्तशालानि संयोगादेकशालद्विशालयोः । युज्यते सर्वतोभद्रं सिद्धार्थं च यदा गृहम् ।। ५५ ॥ एकशालेन जायेत श्रीपदं श्रीपंदं तथा?दा)। सर्वतोभद्रगेहस्य यममूर्यकशालयोः ।। ५६ ॥ योगेन श्रीफलं नाम स्याद् गृहं श्रीफलावहम् । सर्वतोभद्रदण्डाभ्यामेकशालं युतं यदा ।। ५७ ॥ श्रीस्थलं नाम भवनं तदा स्यादास्पदं श्रियः । स्यादेकशाले मिलिते सर्वतोभद्रवातयोः ।। ५८ ।। लक्ष्मीनिवासभवनं गृहं श्रीतनुसंज्ञितम् । यदैकशालं सिद्धार्थ वर्धमानं च युज्यते ।। ५९ ॥ श्रीपर्वताभिधानं स्यात् तदानीं भवनोत्तमम् यममूर्यस्य योगेन वर्धमानैकशालयोः ॥ ६० ।। १. 'वा', २. 'य', ३, ४, ५. 'प्र' ख. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy