SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १३२ समराङ्गणसूत्रधारे चतुर्विंशतिरन्यानि षट्शालान्यन्ययोगतः । पञ्च यानि चतुश्शालान्युचितानि महीभृताम् ।। ३५ ॥ तेषां द्विशालयोगेन पद्शालान्यभिदध्महे । सिद्धार्थे सर्वतोभद्रयुक्त स्याच्ट्रीपुरं गृहम् ।। ३६ ॥ श्रीवासं सर्वतोभद्रे यमसूर्यान्विते भवेत् । दण्डाख्ये भद्रयुक्त श्रीभूषणं जायते गृहम् ॥ ३७॥ वाताख्यं सर्वतोभद्रयोगाच्छ्रीभाजनं विदुः । सिद्धार्थे वर्धमानेने युक्ते स्याद् भूतिमण्डनम् ।। ३८ ॥ यमसूर्ये तु तेनैव संयुक्ते भूतिभाजनम् । भूतिमानं तु दण्डाख्ये वाताख्ये भूतिभूषणम् ।। ३९ ।। नन्यावर्तस्य योगेन सिद्धार्थादिचतुष्टयम् ।। श्रीमुखं श्रीधरं श्रीकृच्छ्री(ध?क)रं चेति जायते ॥ ४० ॥ सिद्धार्थादिचतुष्कस्य भवेद रुचकयोगतः । श्रियाकारं श्रियोवासं श्रीयानं श्रीमुखं तथा ।। ४१ ॥ सिद्धार्थादिचतुष्कस्य भवेत् स्वस्तिकयोगतः । धनपालधनानन्तधनप्रदधनाढयम् ।। ४२ ।। भवन्त्येवं राजवेश्मयोगतो विंशतिहाः । प्राक् चतुर्विंशतिथेति चत्वारिंशचतुर्युता ।। ४३ ।। मूपाव्यूढिवशादेकभद्रादीन्यभिदध्महे । भिदाभिरेक(?)मूषाभिरभद्रं द्वादशैकया ।। ४४ ॥ द्वाभ्यां षट्पष्टिरुद्दिष्टा विशे द्वे तिमृभिः शत?ते) । स्याद् व्युढाभिश्चतसृभिः पञ्चोनं शतपञ्चकम् ।। ४५ ।। शतानि पञ्चभद्राणां सप्त द्वानवतिस्तथा । चतुर्विंशा नवशती षभद्राणामुदाहृता ।। ४६ ।। जानीयात् सप्तभद्राणि संख्यया पञ्चभद्रवत् । गृहाणामष्टभद्राणां पञ्चोनं शतपश्चकम् ।। ४७ ।। १. रेतानि', २. 'स्त्री', ३. 'न संयुक्ते भू', ४. 'स्वस्तिकालययो', ५. 'तुदाभिरेकम्', ६. 'तैः । क. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy