SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १३१ द्वे शते सप्तभद्राणां स्याद् विंशत्युत्तरं शतम् । गृहाणामष्टभद्राणां चत्वारिंशच पञ्च च ॥ २२ ॥ . दश स्युर्नवभद्राणि तथैकं दशभद्रकम् । एवं सहस्रमेकं स्याद विंशतिश्च चतुर्युता ।। २३ ॥ गृहाणां पञ्चशालानां मूषावहनसङ्ख्यया । अथ लक्ष्म च संख्यां च ब्रूमः पदशालवेश्मनाम् ।। २४ ।। एकद्वित्रिचतुश्शालगृहाणां योजनान्मिथः । द्विशालस्यैकशालस्य त्रिशालस्य च योगतः ॥ २५ ॥ षदशालं जायते वेश्म भेदास्तस्य तु षोडश । पक्षनवातयोर्यो देकशालगृहस्य च ।। २६ ॥ स्यात् पङ्कजान्कुरं नाम गृहं षट्शालमुत्तमम् ।। हिरण्यनाभं सिद्धार्थ चैकशालेन वेश्मना ।। २७ ॥ संयोज्यं तु यंदा गेहं तदा स्याच्छीगृहं शुभम् । संयोगादेकशालेन सुक्षेत्रयममूर्ययोः ।। २८ ॥ धनेश्वरं नाम गृहं जायते धनद्धये। दण्डाख्यचुल्लयोः संयोगादेकशालगृहस्य च ॥ २९ ॥ प्रभूतकाञ्चनकरं गृहं स्यात् काञ्चनप्रभम् । द्वादशान्यानि जानीयाद् भवनान्यनया दिशा ॥ ३० ॥ एतेषामेव भेदेषु शुभान्यखिलवर्णिनाम् । तुल्यात् त्रिशालद्वितयात् षट्शालकचतुष्टयम् ॥ ३१ ॥ स्याद द्विशालचतुःशालयोगादन्यच्चतुष्टयम् । सिद्धार्थेन चतुःशालं वेश्म(नाना)संयु(तिर्य?तं य)दा ॥ ३२ ॥ गृहं तदा स्यात् पदशालं त्रैलोक्यानन्दकं शुभम् । यममूर्येण संयुक्तं विलासचयमुच्यते ।। ३३ ॥ दण्डयुक्तं चतुःशालं सुखदं नामतो भवेत् । वातेन च चतुःशालं संयुक्तं श्रीप्रदं भवेत् ॥ ३४ ॥ १. 'ले सुयोजितम् । सं', २. 'स', ३. 'युक्तं तु वि' ख. पाठः । "Aho Shrut.Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy