________________
समराङ्गणसूत्रधारे
अन्योन्यवीक्ष्यमाणानां भेदास्तेनेह नोदिताः । एकशालयु(ते?ते)भदाः स्युश्चतुश्शालवेश्मनि ॥ १० ॥ चत्वारः पञ्चशालानां मस्तेषां च विंशतिः । यदा भवत्यजा शाला सर्वतोभद्रवेश्मना ।। ११ ।। सुदर्शनमिति प्राहुः पञ्चशालं तदा गृहम् । तदेव करिणीयोगात् सुरूपमिति कथ्यते ॥ १२ ॥ सुन्दरं महिषीयोगाद् गावीयोगात्तु शोभनम् । वर्धमानस्य चैतासां शालानां योगतः क्रमात् ।। १३ ॥ सुनाभं सुप्रभं योग्यं विनोदं च भवेद् गृहम् । नन्द्यावर्तेऽप्येवमेव शालायोगेन जायते ।। १४ ।। सुखंदं नन्दनं नन्दं पुण्डरीकं च मन्दिरम् । रुचकस्याप्यजादीनां योगेन स्युरनुक्रमात् ।। १५ ।। नामतो भद्ररुचिररोचिष्णूनि प्रहर्षणम् । स्वस्तिकेऽप्यनया युक्त्या भवेद् गृहचतुष्टयम् ॥ १६ ॥ घोषं सुघोषणं निन्दिघोषं श्रीपद्ममेव च । विंशतिः सर्वतोभद्रप्रभृत्यालययोगतः ।। १७ ।। जातानि पञ्चशालानि योग्यानि पृथिवीभुजाम् । पूर्वोक्तैरष्टभिः सार्धं स्यादष्टाविंशतिगृहैः ॥ १८ ॥ + कथ्यते पञ्चशालानां मूषाभेदक्रमोऽधुना । विभद्रमेकं तत्रैकभद्राणि दशसङ्ख्यया ॥ १९ ।। द्विभद्राणि पुनः पञ्चचत्वारिंशत् प्रचक्षते । त्रिभद्राणां शतं विंशत्युत्तरं द्वे दशोत्तरे ॥ २० ॥ चतुर्भद्रगृहाणां तु द्विपञ्चाशच्छतद्वयम् । गृहाणां पञ्चभद्राणां षड्भद्राणां दशोत्तरे ।। २१ ॥ १. 'नाम् ', २. 'नन्दं', ३. 'न्ते' ख. पाठः । ४. 'व' क. पाठः ।
+' अमीषामष्टाविंशतीना(?)मध्ये एकतमस्य भूपाभेदे कृते एतावन्ति रूपाणि भव. न्ति' इति टिपणमस्ति ।
"Aho Shrut Gyanam"