________________
समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः । १२९
द्वारस्य पीठस्य च मन्दिरेषु भित्तेश्च मानं कथितं क्रमेण । तथोदिता दारुकलास्तु सम्यक् प्रहीणवास्तोः सकलं च लक्ष्म ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे द्वारपीठभित्तिमानदारुकलाहीनवास्तुलक्षणं नाम चतुर्विंशोऽध्यायः ॥
अथ समस्तगृहाणां सङ्ख्याकथनं नाम पञ्चविंशोऽध्यायः ।
वेश्मनां पञ्चशालानां कथ्यन्ते लक्षणान्यथ । चतुर्विंशतिसंयुक्तं सहस्रं तानि सङ्ख्ययां ॥ १ ॥ गुरूणां दशसङ्ख्यानां प्रस्तारस्य च कल्पनात् । गृहाणां पञ्चशालानां भेदा लघुविभगतः || २ || पञ्चशालं भवेद् योगाद् गृहयोर्द्वित्रिशालयोः । यद्वायोगाद्भवेदेतच्चतुःशाल कशालयोः ॥ ३ ॥ चतुर्णामपि वर्णानामिदं सद्म प्रशस्यते । हिरण्यनाभवभूति वर्णानामिह वेश्मनाम् || ४ || सिद्धार्थादिसमायोगान्निष्पद्येत गृहाष्टकम् | योगाद्धिरण्यनाभस्य सिद्धार्थेन गृहं भवेत् ॥ ५ ॥ हेमकूटाख्यमस्यैव वातेन स्वर्णशेखरम् । सुक्षेत्रस्य च सिद्धार्थसंयोगेन श्रियावहम् || ६ || तस्यैव यमसूर्येण भवेद् वेश्म महानिधिः । चुलयास्तु यममूर्येण सदादीप्तं प्रजायते ॥ ७ ॥ दण्डसंयोगतस्तस्य चित्रभान्वभिधं भवेत् । पक्षघ्नस्य तु दण्डेन सदोदोषं विनिर्दिशेत् ॥ ८ ॥ पक्षघ्नस्यैव वातेन योगान्निर्विघ्नमुच्यते । न काचचुली संयोगस्त्रिशालादिषु शस्यते ॥ ९ ॥
1.
'या ।। पश्चशालं', २. 'भेदतः ॥', ३. 'चतुर्णामि', ५. 'दातो' ख. पाठः ।
" Aho Shrut Gyanam"
४. ' स्व ',