SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १२८ समराङ्गणसूत्रधारे पट्टको व्यर्थमुत्सेधादुत्सेधार्धेन निर्गतम् । तन्त्रकस्य प्रमाणं स्यादिति शास्त्रविदो विदुः ॥ ३३ ॥ द्रव्याण्युपर्युपर्यस्य परापरविभागतः । पोट्या चतुर्थेन प्रविभागेन ह्रासयेत् || ३४ || पूर्वामुखं गृहं यत्तु द्वारं माहेन्द्रसंयुतम् । हस्तिनी च भवेच्छाला तद् गृहं भद्रसंज्ञितम् ॥ ३५ ॥ भद्रं भद्रकरं भर्तुर्यशीलविवर्धनम् । सिध्यन्ति चास्य कार्याणि भद्राख्ये बसतो गृहे ॥ ३६ ॥ दक्षिणाभिमुखं वेश्म द्वारं चास्य गृहक्षतम् । महिषी च भवेच्छाला तद् गृहं नन्दपीठकम् || ३७ ॥ नन्दपीठगृहं पुंसां नित्यानन्दकरं स्मृतम् । सर्वसम्पद्गुणोपेतं धनधान्यविवर्धनम् ॥ ३८ ॥ वारुण्यभिमुखं स द्वारं च कुसुमाइयम् । गावी चैव भवेच्छाला सौरभं तद्विदुर्बुधाः || ३९ ॥ सौरभे नित्यहृष्टत्वं वसतां गृहमेधिनाम् । सफलं कृषिवाणिज्यं पुत्राश्च वशवर्तिनः ॥ ४० ॥ उत्तराभिमुखं धिष्ण्यं द्वारं भल्लाटसंयुतम् । छागली च भवेच्छाला पुष्कराख्यं तदुच्यते ॥ ४१ ॥ शीलवान् नित्यसैन्तुष्टः सुहृत्सुजनवत्सलः । सुभगः पुष्कराख्ये च बहुपुत्रधनान्वितः ॥ ४२ ॥ भद्रं च नन्दपीठं च सौरभं पुष्करं तथा । प्रथमार्धे तु वर्गस्य प्रथमस्य प्रयोजयेत् ॥ ४३ ॥ सर्वभद्रादिकाः सर्वे निवेशा ये प्रकीर्तिताः । उत्पन्नास्ते विमानेभ्यः पञ्चभ्यः पञ्चपञ्चके ॥ ४४ ॥ ५. ‘मुखम्’, २. 'चेद्भुते शा', ३. संहृष्टसुहृत्स्वज', ४. 'तु' ख. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy