SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ १२७ द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः । द्वात्रिंशतोऽपरश्चेति । पञ्च वर्गाधिपा मताः । शालाचतुर्थभागेन भित्तिविस्तार इष्यते ॥ २२ ॥ वर्गेपु भित्तिलक्ष्मोक्तं षोडशादिषु पञ्चसु । मर्मपीडा भवेद् यत्र भित्तिस्तम्भतुलादिभिः ॥ २३ ॥ कुर्वीत हांसं वृद्धि वा तत्र मर्मव्यथां त्यजन् । अतिसंवृतविस्तारं कार्यमुद्दिश्य बुद्धिमान् ।। २४ ।। शालाप्रविष्टं कुर्वीत ' हीनवास्तुष्वलिन्दकम् । चतुरश्रीकृते क्षेत्रे भूमिभागे समीकृते ।। २५ ॥ उपरिष्टाद् भवेत् पीटं * तलादर्धसमुच्छ्रितम् । नियुक्त तु ततः पीठे वास्तुविस्तारतोऽङ्गुलम् ॥ २६ ॥ प्रतिहस्तं समुद्धृत्य सप्तत्या सह योजयेत् । द्वारोरन्छ्रायाः समाख्याता वर्गेषूक्तेषु पञ्चसु ॥ २७ ॥ उच्छायार्थेन वैपुल्यमष्टांशेन विवर्जितम् । द्वारविस्तारपादांशे पट्टविस्तार इष्यते ॥ २८ ॥ विस्तारार्धेन बाहुल्यं साँध वेद्या(त?स्त)लोपरि । उत्तरोत्तरवैपुल्यं कुर्याच्छाखावशाद् बुधः ॥ २९ ॥ वेद्या विस्तारबाहुल्ये विधेये शाखयोरपि । द्वारविस्तारपादेन मूले स्तम्भस्य विस्तृतिः ॥ ३० ॥ दशभागविहीनाग्रे पट्टः स्तम्भन सम्मितः।। स्तम्भाग्रस्य त्रिभागेने पट्टकोटिर्विधीयते ।। ३१ ।। हीरग्रहणमायाम स्तम्भाग्रात् तु चतुर्गुणम् । पट्टीन्योन्युद्भवेत् (?) तत्र व्यासवाहल्ययोस्तथा ॥ ३२॥ १. ' हास', २. 'जेत् ', ३. 'त' क. पाठः । ४. 'पेद्यातलोम्बरे' (१) ५. 'गोना' ख. पाठः । ६. 'दा' क. पाठः । ७. 'नान्याद्भ' ख. पाठः । +'ते पञ्चसमुदायाः विनादीनां व्युत्क्रमेण यथा (यथं) योज्याः । व्यासस्येदं चेष्टमानम् ' इति, + 'पञ्च++++हीनयास्तुप्रमाणं तद्गृहं शालाख्यं तदन्तर्गतं षड्दारुकं कुर्यात्' इति, * 'तलशब्देन प्रथमभूम्युच्छायः' इति च टिप्पणानि सन्ति । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy