SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे पापं तन्नामतो वास्तु सर्वपापप्रयोजकम् । पितृरोगोक्तकोणाभ्यां भयदं रोगमृत्यवे ॥ ९ ॥ पितृरोगाग्निकोणेषु नन्दनं गृहमादिशेत । सुखमर्थप्रदं शान्तं हलकं परिकीर्तितम् ॥ १० ॥ ईशान्यां तु चतुर्थेन खादकं खादकं गृहम् । लाङ्गलाद्या यदा शाला ईशान्यां च यदापरा ॥ ११ ॥ ध्वाक्षं तन्नामतो वास्तु दरिद्राणां विधीयते । द्वितीया च चतुर्थी च शाला लागलके यदि ॥ १२ ॥ विकृतं विकृतावासं प्रवासोऽत्र कुटुम्बिनः । आद्या शाला द्वितीया च चतुर्थी च यदा पुनः ।। १३ ॥ विलयं हानिदं नित्यं गृहं तद् वित्तनाशनम् । वायव्यं हलकं यस्मिन्नशान्यां च यदा पुनः ॥ १४ ॥ क्षयं क्षयकरं नित्यं हलकेषु गृहं भवेत् ।। अग्निवायुमहेशानां शाला लाङ्गलके यदि ॥ १५ ॥ याम्यं मृत्युकरं नृणां न तत् कुर्यात् कदाचन । मारुते नैर्ऋतेशान्योः शालाकणेपु लाङ्गलम् ।। १८ ॥ विपरीतं व्याधिकरं नृणां नाशकरं तथा । चतस्रो हलके यत्र प्रादक्षिण्यमुखाः स्थिताः ॥ १७ ॥ भद्रकं नाम तद् वास्तु सर्वभद्रप्रयोजकम् । द्वारोच्छ्रायं सविस्तारं तलोच्छायं च वेश्मनाम् ॥ १८ ॥ पीठस्य च समुत्सेधं भित्तिविस्तारमेव च । तथा दारुक(लां?ला)चैव या प्रोक्ता गृहकमणि ॥ १९ ॥ एकशालाविधानं च तेषां नामानि यानि च । तत् सम्प्रति प्रवक्ष्यामो यथावदनुपूर्वशः ।। २० ।। पोडशानां समुदयो विंशतेरपि चापरः । विंशतेः सचतुष्कायास्तथाष्टाविंशतेरपि ॥ २१ ॥ १. 'पापकं नाम', २. 'तु', ३. नी' ४. 'ज्ञेयं', ५. 'खास्तथा' ६. 'नः।' क. पाठः । ७. 'दा', ८. 'तेरपि चतुः कायां तथा' ख. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy