SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १२५ द्वारपीठभितिमानादिकं नाम चतुर्विंशोऽध्यायः । इत्येकशालभवनान्युदितान्यलिन्दषडदारुकापवरकावरणादिभेदैः । संज्ञा च लक्षणफलैः करिणीमुखाभिः शालाभिरेवमपराणि च युग्मजानि ॥४१॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे एकशाललक्षणफलद्विहंसकादिलक्षणफलानि नाम त्रयोविंशोऽध्यायः । अथ द्वारपीठभित्तिमानादिकं नाम चतुर्विंशोऽध्यायः । कर्णशालानिबद्धानि मण्डपैरन्तरस्थितैः । असम्बाधाजिराणि स्युहेलानि दश पञ्च च ॥१॥ ईश्वरं वृषभं चन्द्रं रोगं पापं भयप्रदम् । नन्दनं खादकं वाक्षं विकृतं विलयं क्षयम् ॥ २ ॥ याम्यं च विपरीतं च भद्रकं चेति नामतः । एतानि हलकाख्यानि विद्याद् गेहानि यत्नतः ।। ३ ।। अग्निरक्षोनिलेशानकोणगानां यथाक्रमम् । एकद्वित्रिचतुर्थाख्या हलकानां प्रकल्पयेत् ॥ ४ ॥ अनेन क्रमयोगेन च्छन्दोभेदा भवन्ति च । तत्राद्येनेश्वरं नाम हलकेन गृहं भवेत् ।। ५ ।। सर्वलक्षणसंयुक्तं सर्ववृद्धिफलप्रदम् । वृषभं तु द्वितीयेन पुत्रदारविवर्धनम् ॥ ६ ॥ प्रथमं च द्वितीयं च गृहे तु हलकं यदि। चन्द्रं वृद्धिकरं नृणां सर्वलक्षणसंयुतम् ।। ७ ।। वायव्यं हलकं यत्र रोग रोगविवर्धनम् । प्रथमं च तृतीयं च गृहे तु हलकं यदि ॥ ८ ॥ १. ग्मलाभिः' क, 'मितानि', ख. पाठः । २. 'गणे भागां य', ३. 'रादिव', ४. 'भयप्रदम् ' ख. पाठः। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy