SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १२४ समराङ्गणसूत्रधारे कथयामः समासेन यथार्थैरेव नामभिः | अलङ्कृतमलङ्कारं रमणं पूर्णमम्वरम् ॥ २९ ॥ पुण्यं सुगर्भ कलशं दुर्गतं रिक्तमीप्सितम् । सुभद्रं वन्दितं दीनं विभवं सर्वकामदम् || ३० || शालान्तः स्थितषड्दारुपश्चादपवरैः कृतैः । एभ्योऽपरेsपि निर्दिष्टा भेदाः षोडश वेश्मनाम् ॥ ३१ ॥ प्रभवं भाविकं क्रीडं तिलकं क्रीडनं सुखम् । यशोदं कुमुदं कालं भासुरं सर्वभूषणम् || ३२ || वसुधारं धनहरं कुपितं वित्तवृद्धिदम् । कुलोदयं च विज्ञेयं गुणदोषास्तु पूर्ववत् || ३३ ॥ अनन्तरमिहोक्तानि यानि वेश्मानि षोडश । प्रत्येकं तान्यलिन्देन परि ( कु कु )र्याच्चतुर्दिशम् || ३४ ॥ तद्भेदेभ्यः प्रसूतानि कथयामो विधानतः । चूडामणि प्रभद्रं च क्षेमं शेखरमद्भुतम् || ३५ || विकाशं भूतिदं हृष्टं विरोधं कालपाशकम् । निरामयं सुशालं च रौद्रं मोघं मनोरथम् || ३६ || सुभद्रं चेति सदनं संज्ञाभिरुपलक्षयेत् । वेश्मनामेकशालानां शतं स्याच्चतुरुत्तरम् || ३७ ॥ कथितं तच्च संस्थानैर्नामभिश्च यथाक्रमम् । हस्तिनी महषी गावी छागंली च यथाक्रमम् ॥ ३८ ॥ तद्वयेन द्विपूर्वाणि ब्रूमो नामानि वेश्मनाम् । द्विहंसकं द्विचक्रा द्विसारसमथापरम् || ३९ ।। द्विकोकिलं बुधैः ख्यातं हस्तिन्यादेः क्रमाद् गृहम् । attery: पशुधान्यानां क्रमादाद्यानि वृद्धये ॥ ४० ॥ एतेषामेव नाशाय भवेद् वेश्म द्विकोकिलम् । १. 'चि', २. 'मे', ३, 'छ' ख. पाठः । " Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy