SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ द्विशालगृहलक्षणं नाम द्वाविंशोऽध्यायः । आद्याद्वितीये वहतो यत्र मूपे धनप्रदे । वसुधाराभिधानं तद् गृहं सर्वार्थकानुगम् ।। २२ ।। आद्यावृतीये वहतो यत्र सिद्धार्थकं हि तत् । सर्वोपद्रवनिर्मुक्तं सिद्धिकृञ्चिन्तितार्थकृत् ।। २३ ॥ द्वितृतीयं वहन्मूषं भवेत् कल्याणमृद्धिकृत् । वहदाद्यचतुर्थीकं शाश्वतं गृहमुत्तमम् ॥ २४ ॥ शिवं द्वितीयातुर्याभ्यां वहन्तीभ्यां सुखपदम् । कामदं त्रिचतुर्थीभ्यां भवेच्चिन्तितकामदम् ॥ २५ ॥ आधाद्यामि(सुस्तु) तिसृभिः स्त्रीप्रदं संप्रदं (१) प्रभोः । आधाद्वितीयातुर्याभिः शान्तं शान्तिप्रदायकम् ॥ २६ ॥ आद्यातृतीयातुर्याभिनिष्कलङ्क समृद्धिकृत । द्वितृतीयाचतुर्थीभिधेनेशं धनवर्द्धनम् ।। २७॥ आद्याद्याभिश्चतसृभिः कुबेरं वित्तवृद्धिकृत् ।। यमसूर्यप्रभेदेषु ब्रूमो लक्ष्म फलानि च ॥ २८ ॥ आधाद्वितीयामृषाभ्यां संहारं स्वामिनाशनम् । गृहमाद्यातृतीयाभ्यां मृत्युदं यमसूर्यकम् ।। २९ ॥ द्वितृतीयं वहन्मृपं कालं योपिद्विनाशनम् ।। वैवस्वतं वहत्तुयेप्रथमं रोगकारकम् ।। ३० ॥ यमालयं द्वितुर्याभ्यां स्वामिनो यमदर्शनम् । करालं त्रिचतुर्थीभ्यां भर्तुः प्राणविनाशनम् ॥ ३१ ॥ आद्याभिस्तिमृभिः स्वामिनाशनं विकरालकम् । आधाद्वितीयातुर्याभिः कबन्धं भर्तृनाशनम् ॥ ३२ ॥ आद्यातीयातुर्याभिर्भर्तनं मृतकालयम् । शबं द्वित्रिचतुर्थीभिः स्वामिनो मरणप्रदम् ॥ ३३ ॥ आद्यायाभिश्चतसृभिः स्वामिघ्नं महिषं विदुः । प्रचण्डं दण्डभेदेषु पूर्वया सद्वितीयया ॥ ३४ ॥ १. 'सिद्धार्थ' क. पाठः । २. 'दम्', ३. 'मितिस', ४..'क' ख. - माठः। ५. द्वि' क. पाठः । ६. 'श', ७. 'तुर्याभिः' ख. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy