________________
१२०
समराङ्गणसूत्रधारे गृहमादौ विजानीयाद् भर्तुपभयप्रदम् । चण्डमाद्यातृतीयाभ्यां चण्डदण्डभयप्रदम् ।। ३५ ।। दण्डं स्याद् द्वितृतीयाभ्यां राजदण्डाय दारुणम् । उद्दण्डमाद्यातुयोभ्यां स्वामिनो दण्डभीतिदम् ॥ ३६ ।। काण्डं द्वितीयातुर्याभ्यां काण्डवद्भेदकारकम् । कोटरं त्रिचतुर्थीभ्यां स्वामिनो विग्रहावहम् ।। ३७ ॥ प्रथमा(द्वि)तृतीयाभिर्विग्रहं वधर्वन्धकृत् । आद्याद्वितीयातुर्याभिर्निग्रहं विग्रहावहम् ॥ ३८ ॥ आघातृतीयातुर्याभिधूनं सर्वधनापहम् । द्वितृतीयाचतुर्थीभिर्निधूमं धननाशनम् ।। ६९ ॥ आद्याद्याभिश्चतसृभिर्दन्तिदारुणमर्थहृत् । आद्याद्वितीयामूषाभ्यां वातभेदेषु मन्दिरम् ।। ४० ॥ मरुत्संज्ञं भवेत् तत्र वसतां कलहः सदा । उद्वेगकारि पवनं तृतीयाद्योपलक्षितम् ॥ ४१ ॥ वाताख्यं द्वितृतीयाभ्यां सदा सन्तापकारकम् । सन्तापोद्वासकायोद्यातुयोभ्यामनिलं भवेत् ॥ ४२ ॥ प्रभञ्जनं द्वितुर्याभ्यां शोकसन्तापकारकम् । तृतीयया चतुथ्यो च घनायुद्वेगकारकम् ॥ ४३ ॥ आद्यया द्वितृतीयाभ्यां रोग कार्यार्थनाशनम् । आद्याद्वितीयातुर्याभिः प्रलयं चित्ततापकृत् ॥ ४४ ।। आधाद्वितीयातुभिः कलह कलहावहम् । द्वितृतीयाचतुर्थीभिः कलि : सन्तापकारकम् ॥ ४५ ॥ आद्याद्याभिश्चतसृभिः कलिचुल्ली धनापहा । रोगमाद्याद्वितीयाभ्यां चुल्लीभेदेषु शोकदम् ॥ ४६ ॥
१. 'बाध' ख. पाठः । २. 'घ(न)मु' क. पाठः । ३. 'मूषाभिः' ख, पाठः । ४. 'लिस' का पाठः।
"Aho Shrut Gyanam"