________________
समरामणसूत्रधारे द्वित्रितुर्यापञ्चमीभिः कनकं कनकावहम् । सायाभिर्द्वित्रिषष्ठीभिः काञ्चनं काश्चनप्रदम् ॥ २१ ॥ आद्याद्वितुयोषष्ठीभिः स्वर्ण स्वर्णविद्धये। सुवणेमाद्यात्रिचतुःषष्ठीभिः स्यात् सुवणेदम् ॥ २२ ॥ स्याद् द्वित्रितुर्याषष्ठीभिः सन्मार तापशान्तिऋत् । आधाद्विपञ्चमीषष्ठयो यत्र तत् सारमुत्तमम् ।। २३ ।। चामीकरं त्रिषष्ठ्याद्यापञ्चमीभिहोत्तमम् । द्वित्रिषट्पञ्चमीभिः स्यात् तपनं नाम मन्दिरम् ।। २४ ॥ पट्तुर्याद्यापञ्चमीभिस्तापनीयमुदाहृतम् । शातकुम्भं द्विषट्पञ्चचतुर्थीभिर्भवेद् गृहम् ।। २५ ।। हिरण्यनाभं त्रिचतुःपञ्चपष्ठीभिरीरितम् । कल्याणमाद्यात्रिचतुःपञ्चषष्ठीभिरुच्यते ।। २६ ॥ पटपञ्चद्वित्रितुर्याभिभवेद भूषणसंज्ञितम् । आधाद्वित्रिचतुःपञ्चषष्ठीभिभूतभूपणम् ॥ २७ ॥ अथ सुक्षेत्रभेदानां लक्षणान्यभिदध्महे । यत्राद्याद्वित्रितुर्याभिस्तनाग नाम मन्दिरम् ।। २८ ।। यत्रायाद्वित्रिपञ्चम्यस्तत् भूर्यप्रभमुच्यते । आधाद्वितुयोपञ्चम्यो यत्र तन्मनवारणम् ।। २९ ॥ आद्यात्रितुर्यापञ्चम्यो यत्र तत् केसरी विदुः । वासवं पञ्चमीतुर्याद्वितीयाभिस्तदुच्यते ॥ ३० ।। षष्ठयाद्यात्रिद्वितीयाभिरिन्द्रमन्दिरमीरितम् । आधाद्वितुर्यापष्ठीभिहाशिमंशमुदाइलम् ॥ ३१ ॥ आधावितुर्यापष्ठीभिहंससंज्ञं निवेशनम् । षष्ठीद्वित्रिचतुर्थीभिः सारसं नामतो भवेत् ।। ३२ ॥ आधाद्विपश्चषष्ठीभिः कथयन्तीह कुञ्जरम् । आयात्रिपञ्चषष्ठीभिर्विज्ञेयं तोयदं गृहम् ॥ ३३ ॥ लक्ष्ये तु भूतिभूषणमिति पठ्यते ।
"Aho Shrut Gyanam"