SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ११२. समराङ्गणसूत्रधारे इत्युच्चनीचगृहभागफलं प्रदिष्ट मस्मिन्नलिन्दफलमप्यशुभं शुभं च । यद् द्वित्रिशालगृहलक्ष्म तदप्यमुष्मिन् सामान्यतो द्वितययोगभवं च सम्यक् ॥ ३६ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे निम्नोच्चफलच्छवादिसंज्ञालिन्दफलसद्वास्तुफलद्विशालत्रिशा लगृहसङ्ग्रष्टलक्षणफलानि नाम विंशोऽध्यायः ।। अथ दासप्ततित्रिशाललक्षणं नामैकविंशोऽध्यायः । अथ द्वासप्तते—मस्त्रिशालानां यथाक्रमम् । अभिधानानि कात्स्न्येन लक्षणानि पृथक्पृथक् ॥ १॥ मुख्यानि तेषु चत्वारि कथ्यन्ते तानि नामतः । हिरण्यनाभं सुक्षेत्रं चुल्ली पक्षन्नमेव च ॥ २ ॥ हिरण्यनाभमुत्कृष्टं हीनमुत्तरशालया। तत् स्याद् धनप्रदं भर्तुः सुक्षेत्रं पूर्वया विना ॥ ३ ॥ मुक्षेत्रं लक्षणोपेतमृद्धिद्धिप्रदं विभोः । चुल्ली दक्षिणया हीना शालया वित्तनाशिनी ॥४॥ पक्षघ्नं पश्चिमाहीनं वैरकृत् कुलनाशनम् । अलिन्दयोगादेतेषां लघुप्रस्तारयोगतः ॥ ५॥ मूषायोगाच्च भेदाः स्युरष्टादश पृथक्पृथक् । जाम्बूनदं हिरण्याख्यं रुक्माख्यं हेमसंज्ञितम् ॥ ६ ॥ कनकं काञ्चनं स्वर्ण सुवर्ण च ततः परम् । सन्तापसंझं सारं च तथा चामीकराह्वयम् ॥ ७॥ तपनं तापनीयं च शातकुम्भमथापि च । हिरण्यनाभं कल्याणं भूषणं भूतिभूषणम् ॥ ८ ॥ १. 'भं', २. 'भूमिभू' ख. पाठः। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy