SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ १११ निम्नाच्चादिफलानि नाम विशोऽध्यायः । एकस्मिन् स्वामिनो मृत्युरपरस्मिन् धनक्षयः । पूर्वोत्तरोज्झिती धन्यो संज्ञाश्चैषां प्रकारतः ।। २५ ।। स्युरुदक्पूर्वयाम्याप्यशालाहीनान्यनुक्रमात् । हिरण्यनाभसुक्षेत्रचुल्लीपक्षघ्ननामभिः ॥ २६ ॥ विनियोगो यथालिन्दमलिन्दव्युटिरिच्छया । वेश्मान्यथ द्विशालानि कीर्त्यन्ते पट् यथाक्रमम् ॥ २७ ॥ दिकर्णेषु द्विशालानि तत्कान्येषु निर्दिशेत् । संमुखे द्वे समेतानि पढेतान्युपलक्षयेत् ॥ २८ ।। सिद्धार्थ दक्षिणाप्रत्यगे भवन्त्यत्रार्थसिद्धयः । यममूयेमुदक्प्रत्यक् तत्र मृत्युभयं सदा ॥ २९ ॥ प्रागुदीच्योस्तु दण्डः स्याद् दण्डस्तत्र सदा भवेत् । प्राग्याम्ययोस्तु वाताव्यं वास्तु तत् कलहोत्तरम् ॥ ३० ।। उदग्दक्षिणसाम्मुख्ये द्विशालं काचवास्त्विति । तत्र ज्ञातिविरोधः स्यान्न तत् कुयोत् कदाचन ।। ३१ ॥ प्राक्प्रतीच्योस्तु साम्मुख्ये चुल्लीवास्तु विनिर्दिशेत् । तत्र वित्तक्षयो घोरः कदाध्येतन कारयेत् ।। ३२ ॥ चतुश्शालं त्रिशालेन प्रान्तं प्राकारवर्तिना। पूर्वेण सप्तशालेषु मणिच्छन्द इति स्मृतम् ।। ३३ ॥ अन्यानि च त्रीण्याहुः प्रान्तमेव प्रदक्षिणम् । अपरं परिधानं च सपक्षमिति तानि च ॥ ३४ ॥ एकभित्ती तु शाले द्वे गृहसंघट्ट उच्यते । न तं कुर्यात् स हि सदा बन्धदोपवधप्रदः ॥ ३५ ॥ १. 'स्थि', २. '' ख. पाठः । ३. 'व', ४. 'स' क. पाठः । ५. 'क्यस्तित्रा', ६. 'व' . पा। ७. 'सि' क. पाठः। . "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy