________________
११०
समराङ्गणसूत्रधारे वामतस्तु न कर्तव्य एकोऽलिन्दो न पृष्ठतः । वामतोऽर्थविनाशाय पृष्ठतो म्रियते गृही ॥ १२ ॥ यस्य स्यातामलिन्दो द्वौ गृहस्योभयपार्श्वयोः । धनलाभं विजानीयात् तत्प्रवेशे कुटुम्बिनः ॥ १३ ॥ यस्य स्यातामलिन्दी द्वावग्रतः पृष्ठतस्तथा । धनधान्यमवामोति सौभाग्यं चापि तद्गृही ॥ १४ ॥ यस्य वा हलकालिन्दो मुखतो दक्षिणेन वा। राजप्रसादेस्तत्स्वामी धनधान्यश्च वधते ।। १५ ।। वामतो हलकालिन्दो मुखतश्च कृतो यदि । राजदण्डभयं विद्यात् पत्नी चास्य विनश्यति ।। १६ ।। दक्षिणो हलकालिन्दः पश्चिमश्च कृतो यदि । ततः परापि वृद्धिः स्यात् सौभाग्यं च परं भवेत् ।। १७ ।। पृष्ठतो हलकालिन्दो वामतश्च कृतो यदि । कलत्रमरणं तत्र भवेद् दुर्भगतापि च ।। १८ ।। पृष्ठतो वामतश्चैव पुरतो दक्षिणेन वा ! अलिन्दस्य कृतस्याथ वक्ष्यामोऽनुक्रमात् फलम् ॥ १९ ॥ पृष्ठतो दारनाशाय धनलाभाय दक्षिणे । अग्रे राजप्रसादाय वामतोऽर्थविनाशनः ॥ २० ॥ समापितं तु यद् वास्तु सर्वतः परिशोधितम् । स्वामिनस्तद् भवेद धन्यं स्थपतेश्च यशस्करम् ॥ २१ ॥ अर्जितं वर्धते तस्य वृद्धिश्च स्यान्नृपश्रिया । धर्मकामाश्च वर्धन्ते कीर्तिरायुयशो बलम् ।। २२ ।। नित्यं प्रक्रीडितजनं नित्यं सन्निहितथि तत् ।। नृत्यवादित्रगीतेश्च नित्यामोदं निरामयम् ॥ २३ ॥ सत्र नैकप्रकाराणि त्रिशालान्युपलक्षयेत् । प्रकारेषु च सर्वेषु निन्द्यौ याम्यापरोज्झितौ ॥ २४ ॥ 1. 'नाशाय', २. 'र्चि', ३. 'न', ४. 'हितं स ' ख. पाठः ।
"Aho Shrut Gyanam"