________________
अथ निनोचादिफलानि नाम विंशोऽध्यायः ।
अग्रतःपृष्ठतःशब्दौ द्वारेण नियती गृहे । यतो द्वारं तदनं स्यात् पृष्ठं पृष्ठमुदाहृतम् ॥ १॥ द्रव्यायामोदयव्यासैः शाला यत्राधिका भवेत् । वामा वा दक्षिणा वापि अग्रतः पृष्ठतोऽपि वा ॥ २ ॥ हन्ति द्रव्याधिका द्रव्यमायामाभ्यधिका कुलम् ।। उच्छ्रायाभ्यधिका पूजां सन्ततिं विस्तराधिका ॥ ३ ॥ येस्य निन्ना भवेद् भूमिर्वामा दक्षिणकार्थला । बहुदोषं हि तद् वास्तु पुत्रपौत्रविनाशकम् ॥ ४ ॥ यस्य दक्षिणका निम्ना भूमिर्वामास्थला भवेत् । यत्नेनापि कृतं तत् स्याद् भतुरल्पफलोदयम् ॥ ५॥ पश्चिमेन भवेनिम्ना भूमिः स्थूलतराग्रतः । यत्र तत् सर्ववर्णेषु सर्वकामप्रदं गृहम् ।। ६ । अग्रतश्च यदा हीनं पृष्ठतोचि तं भवेत् । भवनं स्वामिनो ह्याशु विरागव्यसनाय तत् ॥ ७ ॥ सच्छत्रं च सकक्षं च तथैव सपरिक्रमम् । सप्रभं च समाख्यातं गृहमत्र चतुर्विधम् ॥ ८ ॥ बाह्योदकं च सच्छत्रं सकक्षमुभयोदकम् । सावश्यायं तु यद् वेश्म तद् विद्यात् सपरिक्रमम् ॥ ९ ॥ एकेनाप्यत्र मुखतः पृष्ठतः पार्थतोऽपि वा। समभं स्यादलिन्देन लक्षणं तु पृथक्पृथक् ॥ १० ॥ एकोलिन्दस्तु कर्तव्यो मुखतो दक्षिणेन वा। मुखे राजप्रसादाय दक्षिणेऽर्थविवर्धनः ॥ ११ ॥
१. 'सा', २. 'द्वारे ' ख. पाठः । ३. 'वृ' क. पाठः । ४. 'या' ख. पाठः । ५. 'प्रायो नि ख. पाठः ! ६. 'स्तु क. पाठः । ७. 'स्याइक्षिणिका' ख. पाठः । ८. 'स्थ' क. पाठः । ९. 'स', १० 'ह्या', ११. 'स्याभ्यं' ख, पाठः । १२. 'एका', पाठः ।
"Aho Shrut Gyanam"