SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ १०८ समराङ्गणसूत्रधारे भवे द्वित्रिचतुःपञ्चम्यष्टम्यः सप्तमी तथा । अशोके द्वित्रिषट्सप्तम्यष्टभ्यः पूर्वया सह || २१३ | भास्वरे द्विचतुःषष्ट्यः सप्तम्याद्याष्टमीयुता । त्रिसप्तम्यष्टमी षष्ठीतुर्याद्याश्रौष्यसंज्ञिते || २१४ ॥ द्वित्रितुर्याष्टमीपष्ट लातव्ये सप्तमी तथा । द्विसप्तम्यष्टमीषष्ठीपञ्चम्याद्याच सुस्वने || २१५ ।। त्रिपञ्चम्यष्टमी षष्ठी सप्तम्याद्यास्तथा मखे | द्वित्रिसप्ताष्टमी षष्ठीपञ्चम्यो वाजिसंज्ञिते ।। २१६ ॥ नेत्रे पूर्वाचतुःपञ्चषट्सप्तम्योऽष्टमी तथा । भ्रमेयुर्द्विचतुःपञ्चषट्सप्तम्योऽष्टमी तथा || २१७ ॥ घोषे च त्रिचतुःपञ्चषट्सप्तम्योऽष्टमी तथा । एकद्वित्रिचतुःपञ्चषट्सप्तम्यो भवन्ति चेत् || २१८ ॥ मूषास्तदानीं भाण्डीरमिति प्राहुर्निवेशनम् । एकद्वित्रिचतुः पञ्चषष्ठ्यो यत्र तथाष्टमी || २१९ ॥ तद्वैसनमिति प्राहुर्वास्तुविद्याविदो गृहम् । एकद्वित्रिचतुः पञ्चसप्ताष्टम्यो गृहे यदि ।। २२० ॥ मूषा भवन्ति तद् विद्यात् प्रस्थमित्यभिधानतः । एकद्वित्रिचतुर्भ्यः स्युः पष्ठी सप्तम्यथाष्टमी || २२१ ॥ यस्मिन् भूषास्तत्राहुः प्रतानमिति मन्दिरम् | चतुर्थीवर्जिताभिः स्यान्मूपाभिर्वेश्म वासुलम् || २२२ ।। कटं तृतीयाहीनाभिर्विज्ञातव्यं निवेशनम् । मूषाभिरद्वितीयाभिर्लक्ष्मीवासमुदाहृतम् || २२३ || सुगन्धान्तमनाद्याभिरष्टाभिः सर्वभद्रकम् । इत्येकभद्रप्रभृतीनि वेश्मान्युक्तानि यावगृहमष्टभद्रम् । एतांश्चतुश्शालगृहप्रभेदान् यो वोत्ते पूजां स लभेत लोके ॥ २२४ ॥ १ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे चतुश्शालविधानं नाम एकोनविंशोऽध्यायः ॥ "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy