________________
चतुःशालविधानं नामैकोनविंशोऽध्यायः । विशेषतो वृद्धिकरं वैश्यानामिति तद्विदः । चतुःपञ्चाष्टसप्तम्यो यस्मिस्तद् धावनं भवेत् ॥ १७३ ॥ सप्तम्याद्याष्टमीषष्ठ्यो यत्र तत् सहमुच्यते । द्विसप्तपष्ट्यष्टमीभिमूषाभिश्चयनं भवेत् ॥ १७४ ॥ षष्ठ्यष्टमीद्विसप्तम्यो (?) यस्मिंस्तत् सेव्यमीरितम् । यत्र तुर्याष्टमी षष्ठी सप्तमी चेति तत् कलम् ॥ १७५ ॥ तीर्णे षष्ठयष्टमीपञ्चसप्तभ्यः सर्वकामदे । यत्रायाः पञ्च तत् प्रोक्तं कानलं सर्वकामदम् ।। १७६ ॥ एकद्वित्रिचतुःषष्ठयो यत्र तल्लोलुपं स्मृतम् । आद्यास्तिस्रः पञ्चपष्ठयो यस्मिस्तजिह्ममुच्यते ।। १७७ ।। प्रगाले पञ्चमीषष्ठीतुर्यापूर्वाद्वितीयकाः । त्रितुर्यापञ्चमीषष्ठयः साद्याः स्युः सालिनाभिधे ॥ १७८ ।। यत्र द्वित्रिचतुःपञ्चपष्टयस्तजिनमुच्यते । एकद्वित्रिचतुर्थ्यः स्युः सुजये सप्तमीयुताः ॥ १७९ ॥ पञ्चमीसप्तमीद्वित्रिपूर्वाः स्युर्विजयाभिधे । यत्रैकद्विचतुःपञ्चसप्तम्यो यामनाम तत् ।। १८० ॥ यत्रैकत्रिचतुःपञ्चसप्तम्यस्तज्जयं विदुः।। मूषा द्वित्रिचतुःपञ्चसप्तम्यो (जाज्ञा)तसंज्ञिते ।। १८१ ॥ आद्यास्तिस्रस्तथा षष्ठीसप्तम्यो यत्र तज्जपम् । आधाद्वितुर्याषष्ठीभिः सप्तम्या च तपं विदुः ॥ १८२ ।। पष्ठीवितुर्यासप्तम्यो जाये?मे)पूर्वान्विता मताः । द्वित्रितुर्यास्तथा षष्ठीसप्तम्यौ वरसंज्ञिते ।। १८३ ॥ चरं तद् यत्र पूर्वे द्वे पञ्चपट्सप्तमीयुते । *चैत्ये स्यात् सप्तमी षष्ठी पञ्चम्याद्या तृतीयका ॥ १८४ ॥ विरोपे द्वित्रिपञ्चम्यः स्यात् पष्ठी सप्तमी तथा । चतुर्थी पञ्चमी पष्ठी सप्तम्याद्या च सुप्रभे ॥ १८५ ।। १. 'लुभं', २. 'पर' स्व. पातः । क. पुस्तकदृष्टलक्ष्योद्देशरीत्या च 'वैरे' इति पाठ्यम् ।
"Aho Shrut.Gyanam"