________________
ê૦૨
समराङ्गणसूत्रधारे
द्वारं यथेष्टमेतस्य वास्तुविद्याविदो जगुः । यस्मिन् पूर्वाष्टमीतुर्यापञ्चम्यो मगधं हि तत् ॥ १६० ॥ प्रागुद पश्चिमद्वारमिदं शंसन्ति सूरयः । यत्र द्वितुर्यापञ्चम्यो मृषाः स्युस्तद्वदष्टमी || १६१ ॥ तत् क्षिप्रं नाम सुखद् यथेष्टं द्वारमिष्यते । त्रिपञ्चम्यष्टमीतुर्या आगस्त्ये पश्चिमामुखे ।। १६२ ॥ द्वितीयायाष्टमीपष्ठ्यो यत्रैकोजं तदुच्यते । तृतीयाeाष्टमी षष्ठो यत्र तद् द्विर्गतं गृहम् ॥ १६३ ॥ द्वित्रिषष्ठोऽष्टमी चापि यस्मिंस्तल्लिहमुच्यते । आयातुर्याष्टमीषष्ठयो यत्र तत् पर्कमुच्यते ॥ १६४ ॥ षष्ठयष्टृमीद्विर्तुर्याभिः(?) स्याद् विलोमाभिर्धं गृहम् | षष्ठ्यष्टमीद्वितुर्याभिरुद्दण्डमिति कीर्तितम् ॥ १६५ ॥ यस्मिन्नाद्याष्टमीपष्ठीपञ्चम्यो मुण्डमेव तत् ।
द्विपञ्चम्यष्टमी षष्ठयो गुषा मातङ्गसंज्ञिते ॥ १६६ ॥ त्रिपञ्चम्यष्टमीषष्ठ्यो भवन्त्यस्खलनामनि । S तत् खर्वनाम तुर्याद्यास्तिस्रो यस्मिंस्तथाष्टमी || १६७ ॥ आद्याद्वितीयासप्तम्यः पिनाके स्युस्तथाष्टमी | त्रिसप्तम्यष्टमीपूर्वा यत्रोद्यन्तं तदुच्यते ॥ १६८ ॥ अष्टमीद्वित्रिपञ्चम्यो यस्मिंस्तद् विशिखं गृहम् । आद्याचतुर्थी सप्तम्यः प्रसभे स्युस्तथाष्टमी ॥ १६९ ॥ रजेद्विसप्तम्यो भूषाः स्युस्तद्वदष्टमी ।
सप्तम्यमतुर्या यत्र तद् रुचकं विदुः ॥ १७० ॥ प्राक्प्रत्यग्द्वारमेतस्य शूद्राणामतिवृद्धिदम् ।
सप्तम्याधाष्टमी भूषा पञ्चम्यपि च सैफले ॥ १७१ ॥ वामे द्विपञ्चसप्तम्यो भूषा ज्ञेयास्तथाष्टमी । त्रिपञ्चसप्तम्यष्टम्यो यस्मिंस्तद् वर्धमानकम् ।। १७२ ।।
S इदमक पुस्तके लुप्तम्। लक्षणवाक्यपाठानुसारेण पूर्वत्र लक्ष्यनिर्देशे अस्खलमिति पाठ्यम् ।
"Aho Shrut Gyanam"