SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ चतुःशालविधानं नामैकोनविंशोऽध्यायः । विधारणं गृहं तत् स्यात् सर्वकामविवर्धनम् । तृतीया यत्र तुर्या च पञ्चमी सप्तमी तथा ।। १४७ ।। तत् साधारणमित्याहुः सर्वद्वारं सुखावहम् । आद्या द्वितीया षष्ठी च सप्तमी यत्र तन्नतम् ॥ १४८ ॥ आद्या द्वितीया षष्ठी चे त्र्यंशे स्यात् सप्तमी तथा।। द्वितीया च तृतीया च ऋषे षष्ठी च सप्तमी ॥ १४९ ।। आद्या तुर्या च षष्ठी च रोगे स्यात् सप्तमी तथा ।। यत्र द्वितीया तुयर्या च स्यात् षष्ठी सप्तमी च तत् ।। १५० ॥ विशोषणं नाम गृहं दक्षिणोत्तरदिङ्मुखम् । तृतीया यत्र तुर्या च स्यात् षष्ठी सप्तमी गृहे ॥ १५१ ॥ मतीच्यमीप्सितद्वारं तद् गृहं सर्वकामदम् । यत्राद्यापञ्चमीषष्ठीसप्तम्यस्त्रिसमं हि तत् ॥ १५२ ॥ प्रभूतद्धिदं वेश्म समस्तैरन्वितं गुणैः । द्वितीयापञ्चमीषष्ठीसप्तम्यो यत्र वेश्मनि ॥ १५३ ।। तदिह स्वैरमित्याहुर्धनधान्यसुखावहम् । तृतीयापञ्चमीषष्ठीसप्तम्यो द्वारमुत्तरम् ।। १५४ ॥ पश्चिमं वा भवेद् यत्र सुप्रतीकं च वृद्धिकृत् । तुर्याद्याभिश्चतसृभिनेलमुत्तरदिङ्मुखम् ॥ १५५ ॥ आधाद्विव्यष्टमीभिः स्यात् सर्वरुग्भीतिकृत क्षयम् + । व्याप्ते पूर्वा द्वितीया च स्थाचतुर्थी तथाष्टमी ॥ १५६ ॥ आद्यातृतीयातुर्याः स्युराक्रीडे तद्वदष्टमी। याद्यास्तिस्रः क्रमाद् व्यर्थे मूषाः स्यादष्टमी तथा ॥ १५७ ।। ईशानाख्ये स्युराधाद्वित्रिपञ्चम्योऽष्टमी तथा। पूर्वोष्टमीत्रिपञ्चम्यो यस्मिंस्तत् सुखसंज्ञितम् ।। १५८ ॥ तत् पूर्वोदड्मुखं वृद्धये जायते हानयेऽन्यथा । यत्र स्युरष्टमीद्वित्रिपञ्चम्यस्तदिहाव्ययम् ॥ १५९ ।। १. ' च सप्तमी यत्र तन्नतम् । क. पाठः । पमिति लश्ये पठितम् । "Aho Shrut.Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy