SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १०२ समराङ्गणसूत्रधारे प्राक्पश्चिमोत्तरद्वारं चातुर्वर्ण्यस्य वृद्धिदम् । यत्र स्युर्द्वित्रिपञ्चम्यो मूषाः षष्ठी च तद् गृहम् ॥ १३४ ॥ स्यात् पूर्वदक्षिणद्वारं प्रथितं पृथुसंज्ञया । यस्मिन्नाद्याचतुःपञ्चषष्ठयस्तत् कलभं विदुः ।। १३५ ।। गुणैरुपेतं सकलैरुदग्द्वारं निकेतनम् । द्विचतुःपञ्चमीषष्ठयो यस्मिंस्तच्छलमुच्यते ।। १३६ ॥ दक्षिणं मुखमेतस्य पश्चिम वा प्रशस्यते । . चतस्रस्न्यादयो यस्मिन्नायास्यं तदुदीरितम् ॥ १३७ ॥ अप्रशस्तं वदन्त्येतत् तद्विदो भवनाधमम् । आद्यास्तिस्रः सप्तमी च मूषाः स्युर्यत्र तद् गृहम् ॥ १३८ । त्रिनाभमुत्तरद्वारं शस्तं सर्वगुणान्वितम् । आद्याद्वितुर्यासप्तम्यो यत्र तत् स्वस्तिकं स्मृतम् ॥ १३९ ॥ प्राक्पश्चिमोत्तरद्वारं चातुर्वर्येऽपि शस्यते । आद्याचतुर्थीसप्तम्यो मूषाः स्युर्यत्र वेश्मनि ॥ १४० ॥ तदिह स्थिरमित्युक्तं द्वारं चैतस्य दक्षिणम् । द्यावास्तिस्रः सप्तमी च यत्र तत् सरलं विदुः ॥ १४१ ॥ तद् भवेत् पश्चिमद्वारं सर्वदोषोज्झितं गृहम् । यत्राद्या च द्वितीया च पञ्चमी सप्तमी तथा ॥ १४२ ॥ द्विगुणं नाम तद् वेश्म द्वारं चास्य यथेप्सितम् । आघातृतीयापञ्चम्यः सप्तम्यपि च यत्र तत् ।। १४३ ॥ नाद्यं नामातिशीलाद्य(?)प्रशस्तं सर्वदेहिनाम् । द्वितीया च तृतीया च पञ्चमी सप्तमी गृहे ॥ १४४ ।। यत्र तचित्रनामेष्टद्वारं चित्रगुणैर्वृतम् । आवाचतुर्थीपञ्चम्यो यत्र स्युः सप्तमी तथा ।। १४५ ॥ तद् भ्रान्तं नाम पूर्वोदग्द्वारं भवनमृद्धिकृत् । यत्र द्वितीया तुर्या च स्यात् षष्ठी सप्तमी तथा ॥ १४६ ।। १. 'म' क. पाठः । २. 'चल', ३. 'द्यात्रिर्यास ' ख. पाठः। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy