________________
चतुःशालविधानं नामैकोनविंशोऽध्यायः । चारुरुच्यं चतुःसप्तम्यष्टमीभिः समन्वितम् ।। सप्तपञ्चम्यष्टमीभिर्युक्तं ध्रुवमिति स्मृतम् ॥ १२१ ॥ षट्सप्तम्यष्टमीयुक्तं कथं सर्वार्थसिद्धिदम् । इत्युक्तानि त्रिभद्राणि शस्तान्येतेषु यानि च ॥ १२२ ॥ तानि नित्यं प्रयोज्यानि वर्णानां च मनीषिभिः । आद्याश्चतस्रो मृषाः स्युर्यत्र तत् कृतसंज्ञितम् ।। १२३ ॥ सर्वद्विगुणकृत् पूर्वप्रत्यग्द्वारं नचान्यथा । आद्यास्तिस्रः पञ्चमी च यस्मिन्नर्चायनं हि तत् ।। १२४ ॥ तद् भवेत् पश्चिमद्वारं गृहं सर्वगुणान्वितम् । यस्मिन्नाद्या द्वितीया च चतुर्थी पञ्चमी तथा ॥ १२५ ।। तत् पौष्णं दक्षिणद्वारं सर्ववृद्धिकरं नृणाम् । (आया)द्यास्तिस्रस्तथाद्या च यस्मिंस्तद् गृहमुद्तम् ।। १२६ ।। द्वारेण पश्चिमेनैतच्छस्यते दक्षिणेन वा । द्वयाद्याश्चतस्रो यत्र स्युस्तन्मिश्रं प्रीतिवर्धनम् ।। १२७ ॥ प्रशस्तं क्षत्रियादीनां तस्य द्वाः प्राच्यपाचि वा । आधास्तिस्रस्तथा पष्ठी यस्मिन् मूषास्तदुत्सुकम् ।। १२८ ॥ तच्छस्तं पश्चिमद्वारं विप्रादीनां जयावहम् । आद्या द्वितीया तुर्या च मूषा षष्ठी च यत्र तत् ॥ १२९ ॥ याम्याप्रत्यङ्मुखं शस्तं विघ्नं नाम कुलर्दिकृत् ।। आद्या तृतीया तुर्या च यस्मिन् षष्ठी च तच्छुभम् ।। १३० ॥ विपक्षं नाम धाम स्याद् द्वारमस्य च पश्चिमम् । द्याद्यास्तिस्रो गृहे यस्मिन् मूषा षष्ठी च तच्छुभम् ॥ १३१ ॥ स्याद् याम्यपश्चिमद्वारमाहूतं नाम तद् गृहम् । आधाद्वितीयापञ्चम्यो यत्र षष्ठी च तद् भवेत् ॥ १३२ ॥ रुचकं नाम याम्यप्रागद्वारं सकलकामदम् । एकत्रिपञ्चषष्ठयः स्युर्यत्र तःमानकम् ॥ १३३ ॥ १. 'म्यप्र' क. पाठः।
"Aho Shrut Gyanam"