________________
१००
समराङ्गणसूत्रधारे
भूषा द्विपञ्चसप्तम्यो याम्यं च मुखमीरिते । त्रिपञ्चसप्तमीभूषाशोभितं शोभनं भवेत् ॥ १०७ ॥ चतुर्थी पञ्चमी यत्र सप्तम्यपि च तद् घनम् । पूर्वा षष्ठी सप्तमी च स्मृता शस्तोत्तरे गृहे ॥ १०८ ॥ द्वितीयासप्तमीषष्ठयो यस्मिंस्तत् कफसंज्ञितम् । द्वारं वारुणमेतस्य हितं च स्याद् द्विजन्मनाम् ॥ १०९ ॥
कर्ण स्यात् पश्चिमद्वारं त्रिषष्ठीसप्तमीयुतम् । चतुर्थी सप्तमीषष्ठयो मूषाः स्युः क्रुष्टसंज्ञिते ॥ ११० ॥
सप्तमीपञ्चमषष्ठीयुक्तं क्रान्तं यशस्करम् । आद्याष्टमी द्वितीया च मृषा प्रोक्ता क्रमागते ॥ १११ ॥ आद्याष्टमी तृतीया च द्विशस्ते भवने स्मृताः । यत्राष्टमी द्वितीयेद्विभयं तदुदाहृतम् ॥ ११२ ॥ आद्याष्टमी चतुर्थी च यत्र तचक्रसंज्ञितम् । तुर्याष्टमी द्वितीयां च यत्र तन्मलयं विदुः ॥ ११३ ॥
तुर्याष्टमी तृतीया च यत्र तत् प्रोक्तमायतम् । आद्याष्टमी पञ्चमी च स्याद् यस्मिंस्तद् वनं स्मृतम् ॥ ११४ ॥
द्वितीया पञ्चमी मूषा यत्र स्यादष्टमी तथा । तद् भाराख्यमुदग्वक्त्रं शुभं विघ्नकृदन्यथा ॥ ११५ ॥ त्रिपञ्चम्यष्टमीभिस्तु सुगारं परिकीर्त्तितम् । यत्राष्टमी तदागारं चतुर्थी पञ्चमी तथा ॥ ११६ ॥ यस्मिन्नाद्याष्टमषष्ठो वीरं तदिह कीर्त्तितम् । षष्ठ्यष्टमी द्वितीया च गृहे व्यायामनामनि ॥ ११७ ॥ षष्ठ्यष्टमी तृतीयाभिर्मूपाभिः प्रोक्तमायुतम् । षष्ठ्यष्टमीचतुर्थ्यः स्युर्यत्र तद् व्याहृतं विदुः ॥ ११८ ॥ षष्ठ्यष्टमीपञ्चमीभिदुर्गमं व्याधिकृन्मतम् | आद्याष्टमी सप्तमीभिः संयुक्तं क्षोभमुच्यते ॥ ११९ ॥
द्विसप्तम्यष्टमीयुक्तं गृहं कृत्रिमसंज्ञितम् । त्रिसप्तम्यष्टमीभिस्तु मृषाभिः क्षोभणं भवेत् ॥ १२० ॥
"Aho Shrut Gyanam"