SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ चतुःशालविधानं नामैकोनविंशोऽध्यायः । साये यत्र द्विपञ्चम्यौ तत् प्रोक्तं गृहमन्तिकम् । यत्र स्युर्द्वित्रिपञ्चम्यः प्रकाशं सर्वदृद्धिकृत् ॥ ९४ ॥ पूर्वा चतुर्थीपञ्चम्यौ यत्र तत् पैत्रमुच्यते । पञ्चमी द्विचतुथ्यौँ च यत्रायस्तं तदीरितम् ।। ९५ ॥ त्रिचतुःपञ्चमीयुक्तं भद्रमाहुर्मनीषिणः । आद्या द्वितीया षष्ठी च यत्र तत् प्रान्तशब्दितम् ।। ९६ ॥ आद्या तृतीया षष्ठी च स्यात् प्रसाधकवेश्मनि । तद् भवेत् सर्वतोद्वारं तथा सर्वार्थसाधकम् ।। ९७ ।। द्वितीया च तृतीया च षष्ठी च क्षमनामनि । तस्य प्रत्यग्दिशि द्वारं शूद्रवर्गस्य चेष्टदम् ॥ ९८ ॥ षष्ठी चतुर्थी चाद्या च स्युर्विधाताख्यवेश्मनि । षष्ठी द्वितुर्ये यस्मिंस्तदायातं दक्षिणामुखम् ॥ ९९ ।। षट्चतुस्त्रियुतं कान्तं तत् स्यात् सर्वार्थसाधकम् । षट्पञ्चाधान्वितं चित्रं तच्च स्याद् याम्यदिङ्मुखम् ।। १००॥ द्वितीयापञ्चमीषष्ठयो यस्मिन् स्युस्तद् द्विमन्दिरम् । यत्र त्रिपञ्चमीषष्ठ्यस्तद् वदन्ति सुदक्षिणम् ।। १०१ ॥ चतुर्थीपञ्चमीषष्ठ्यो भये स्युस्तन्न वृद्धिकृत ।। पूर्वाद्वितीयासप्तम्यो यत्र तच्छ्रिष्टसंज्ञितम् ॥ १०२ ॥ याम्यास्यमिदमिच्छन्ति शुभं सर्वार्थदं नृणाम् । साये तृतीयासप्तम्यौ प्रमोदे परिकीर्तिते ॥ १०३ ॥ यत्र स्युवित्रिसप्तम्यस्तद् वेश्म व्यायतं स्मृतम् ।। यत्राद्या च चतुर्थी च सप्तम्यपि च तद् वियत् ।। १०४ ।। द्विचतुःसप्तमीमूषमाप्यं स्याद् दक्षिणामुखम् । त्रिचतुस्सप्तमीभिस्तु सुनागं वेश्म कीर्त्यते ॥ १०५ ॥ तच्च याम्यापरमुखं धनधान्यसुखप्रदम् । सप्तमी पञ्चमी पूर्वो मूषा नागेन्द्रसंज्ञिते ।। १०६ ॥ १. 'तृती', २. 'वे', ३. 'द्योच्छ्रितं' ख. पाठः । "Aho Shrut.Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy