SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ चतुःशालविधानं नामैकोमनिशोऽध्यायः । पूर्वोत्तरोत्तरं पूर्वाद् भद्रादिह विधानतः । स्यातां प्राग्मेलकाद्यद्वत् पूर्वाद्या दक्षिणा परे(?) ॥ ४४ ॥ ईरं सुनीथमाग्नेयं द्वीपमाप्यं सुसंयमम् । अर्थचमैभं व्याकोशं नैर्ऋतं दृषमं विनम् ॥ ४५ ॥ काव्यं विपासमानीरं कान्तं सौभं विपश्चिमम् । गवयं श्रीवहं श्लिष्टं गणं भीममयोगमम् ।। ४६ ॥ वर्त चलं सठं क्रान्तमित्यष्टाविंशको गणः । द्विभद्राणां समाख्यातखिभद्राणामतः परम् ॥ ४७ ।। ऐन्द्र विलोममायाम वधमेकाक्षमंन्तिकम् । प्रकाशं पेत्रमायस्तं भद्रं प्रान्तं प्रसाधकम् ॥ ४८ ॥ क्षेमं विघातमायातं कान्तं चित्रं द्विमन्दिरम् । सुदक्षिणं भयं श्लिष्टं प्रमोदं व्यायतं वियत् ॥ ४९ ॥ आप्यं सुनागं नागेन्द्रमीरितं शोभनं धनम् । शस्तोत्तरं कर्फ कर्ण क्रुष्टं कान्तं क्रमागतम् ।। ५० ।। द्विशस्तं द्विभयं प्रोक्तं चक्रं मलयमायतम् । वनं भारं सुगाराख्यमागारं वीरमेव च ॥ ५१ ॥ व्यायाममायुतं तद्वद् व्याहृतं च ततः परम् । दुर्गम क्षोभेसंज्ञं च कृत्रिमं क्षोभणं तथा ।। ५२ ।। चारुरुच्याभिधानं च ध्रुषं कथमिति क्रमात् । पदपञ्चाशत् त्रिभद्राणि चतुर्भद्राध्यतः परम् ।। ५३ ॥ कृतमर्चायनं पौष्णमुद्गतं मिश्रमुत्सुकम् । विन्नं विपक्षमाहूतं रूचक बधेनं पृथु ॥ ५४॥ * कलह छलमायास्यं त्रिनाभं स्वस्तिकं स्थिरम् ॥ ५५ ॥ १. 'प्राक्षेलिका' ख. पाठः । २. 'तमा' क. पाठः । ३. 'दीयं वाप्यसु', ४. 'कव्यं विकाशमा', ५ 'तम्', ६. 'मान्तकम् ख. पाठः । ७. 'क्षेम', ८. 'मयं', ९. 'मसं', १८. 'थुक् ' क, पाठः ।। 1. 'चल' ख. पाठ: 1 क्यमाण लक्षणश्लोक तु कलभमिति पश्यते । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy