SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ चतुःशालविधानं नामैकोनविंशोऽध्यायः । कर्णमूत्राद बहिः स्तम्मान न्यसेत सर्वान् प्रयत्नतः । धाम्नां षोडशहस्तानां पश्चानां चतुरुत्तरा ॥ २१ ॥ वृद्धिः शालास्तु तेषां स्युश्चतुरंशेन विस्तृताः । शालाव्यासार्धतोलिन्दः सर्वेषामपि वेश्मनाम् ॥ २२ ॥ तस्याः षोडशहस्ते स्यात् पश्चमांशद्वयेन वा। . सप्तमांशत्रयेण स्याद् द्वयोरपरवेश्मनोः ॥ २३॥ अन्त्ययोर्हस्तयोः स स्याच्चतुर्भिर्नवमांशकैः । पञ्चभिः पदाभिरेभिश्च साधैः साध्रिनगैः करैः ॥ २४ ॥ दैर्ध्य स्याद् दशभिः सार्धेः शालायाः षोडशादिषु । निवेशदशमांशो यः स युतः सप्तभिः करैः ॥ २५ ।। शालाया विस्तरः प्रोक्तः श्रेष्ठानामिह वेश्मनाम् । अलिन्दमानं प्रागेव प्रोक्तं निखिलवेश्मनाम् ॥ २६ ॥ यच्छालालिन्दयोः शेपं भवेद् गर्भगृहं हि तत । मूपावच्छिन्नमिच्छन्ति शालादेश्य विपथितः ॥ २७॥ शालाव्यासप्रमाणा स्यात् सर्वेपामवकोसिमा ।। दिशासु भवने शाला विदिशाकर्णसामयः(१) ॥ २८ ॥ कर्णशाला (त?तु) था प्रोक्ता सा च ज्ञेयावकोमिमा । अलिन्दशालयोर्मध्ये या स्थान्मपति सा स्मृता ।। २१ ॥ * पूर्वद्वारं नियम्यादावादिमूषा तदुत्तरा । मूषा भद्रा इति माहुस्तत्संख्यामवधारयेत् !॥ ३० ॥ यावन्सूपं भवेद् वेश्म तावद् भद्रं तदुच्यते ।। भद्राभद्र शऋदिक्स्थे सोम्यासोम्ये यमाश्रिते ॥ ३१ ॥ शान्ताशान्ते प्रतीचीस्थे सौम्यदिक्स्थे शिवाशिवे । अलिन्दा इति के प्याहुमूपा इत्यपरे विदुः ।। ३२ ।। १. 'स्यां' क. पाठः । २. 'साडमि' व. पाटः। ३. विच्छि', ४. 'मा'. ५. 'भूखेति', ६. 'खा' क.पाटः। ७. सव. पाठः।। * 'पूर्वदारमियं यावदादिमूषा' इति पाठः स्यात् । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy