________________
समराङ्गणसूत्रधारे वेश्मानि सप्तशालानि भवन्ति परिसङ्ख्यया । पञ्चषष्टिसहस्राणि तथा पञ्चशतानि च ॥ ८ ॥ गृहाणामष्टशालानां पर्तिशदपरा भवेत् । लक्षद्वयं सहस्राणि द्विपष्टिः शतमेव च ॥९॥ गृहाणां नवशालानां चत्वारिंशचतुर्युता । दशलक्षसहस्राणि चत्वारिंशत् तथाष्ट च ।। १० ।। शतानि दशशालानां पञ्च पट्सप्ततिस्तथा । गृहद्वितययोगेन संयुक्ताख्यानि विंशतिः ॥ ११ ॥ गृहद्वितययोगेन द्वात्रिंशदिह वेश्मनाम् ।। दशपञ्च तथान्यानि भवन्ति हलकान्यपि ॥ १२ ॥ गृहमालाथ सट्टो गृहनाभिगृहाङ्गणम् । उद्भिन्नं भिन्न कक्षं च निलीनं प्रतिपादितम् ।। १३ ॥ अन्यानि चाष्टभेदानि भवन्त्युत्तमवर्णिनाम् । लक्षणं नाम संस्थानं चैतेषां प्रतिपाद्यते ।। १४ ॥ वर्णिनां स्याच्चतुःशालं मितं द्वात्रिंशता करैः । सेनापतेश्चतुःषष्टिस्तद्वदेव पुरोधसः !! १५ ॥ श्रेष्ठमष्टशतं राज्ञामेतानि तुं यथाक्रमम् । चतुःषडष्टहान्या स्युः पञ्चमं च पृथक् पृथक ॥ १६ ॥ विशोधयेत कनीयोभिमथ्यमानि यथाक्रमम् । नरेन्द्रपुरुषाणां स्युर्वेश्मान्येतानि वृद्धये ॥ १७ ॥ गृहाणि शोधयेत प्राग्वज्ज्यायांस्यपि च मध्यमः । भवन्त्येतानि भूपानां रतिकोशप्रतिश्रयाः ।। १८ ॥ दशांशयुक्तो विस्तारादायामो त्रिप्रवेश्मनाम् । अष्टषट्चतुरंशाढ्यः क्षत्रादित्रयवेश्मनाम् ।। १९ ॥ यो विस्तारः स एव स्यादाथामोऽस्मिन् यथाक्रमम् । विदशूद्रयोः स्यादाधिक्यं मध्ये ज्येष्ठे च समनि ।। २० ॥ १. 'च' क. पाठः।
"Aho Shrut Gyanam"