SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ चतुःशालविधानं नामैकोनविंशोऽध्यामः । क्रीडागृहं यदत्रोक्तं क्रीडागारं तदुच्यते । विहारभूमिराक्रीडभूमिरित्यभिधीयते ।। ५६ ॥ देवधिष्ण्यं सुरस्थानं चैत्यमर्चागृहं च तत् ।। देवतायतनं प्राहुर्विबुधागारमित्यपि ॥ ५७ ॥ छन्नं भवेद् यत्तु महाजनस्य स्थानं सभा सा कथिता च शाला । गवां पुनर्मन्दिरमत्र गोष्ठमाचक्षते वास्तुनिवेशविज्ञाः ॥ ५८ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशाने ___ नगरकटग्रामगृहायननसंज्ञा नामाष्टादशोऽध्यायः ।। यः ॥ अथ चतुःशालविधानं नामैकोनविंशोऽध्यायः । बेमो नृपचमूनाथवर्णिनां भवनान्यथ । प्रशस्तान्यप्रशस्तानि कृत्स्नान्यपि यथाक्रमम् ॥ १॥ वेश्मनामेकशालानां शेतमशाधिकं स्मृतम् । द्वापश्चाशद् द्विशालानां त्रिशालानां द्विसप्ततिः ॥२॥ : चतुःशालानि वेश्मानि यानि तेषां शतद्वयम् । पञ्चाशञ्चाधिका षभिर्विज्ञातव्या मनीषिभिः ॥ ३ ॥ सहस्रं पञ्चशालानां स्यात् तथा पञ्चविंशतिः । षट्शालानां षण्णवतिः स्यात् सहस्रचतुष्टयम् ॥ ४ ॥ अष्टाने त्वेकशालस्य भेदाः पञ्चाशदीरिताः । द्विशालानां तु सर्वेषां प्रभेदाः शनपञ्चकम् ॥ ५॥ शतं शतं च प्रत्येकं त्रिशालानामुदाहृतम् । द्विचत्वारिंशदधिकं चतुःशालेशताष्टकम् ॥ ६ ॥ द्विनवत्युत्तराण्येवं शतानि दश सप्त च । पोडशैव सहस्राणि पोडशोना चतुःशती ॥ ७ ॥ १. 'तु' ख. पाठः । २. 'प्रोक्तमष्टाधिकं शतम् ' क. पाठः। ३. 'ला' ख, पाठः। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy