________________
नगरादिसंज्ञा नामाष्टादशोऽध्यायः । उपस्थानं भवेद् राज्ञां यत्र तत् पत्तनं विदुः। बहुस्फीतवणिग्युक्तं तदुक्तं पुटभेदनम् ॥ ५ ॥ विधाय कुटिका यत्र पत्रशाखातृणोपलैः । पुलिन्दाः कुर्वते वासं पल्ली स्वल्पा तु पल्लिका ॥ ६ ॥ नगरं वर्जयित्वान्यत् सर्व जनपदः स्मृतः। नगरेण समं कृत्स्नं राष्ट्रं देशोऽथ मण्डलम् ॥ ७॥ . आवासः सदनं सम निकेतो मन्दिरं मतम् । संस्थानं निधनं धिष्ण्यं भवनं वसतिः क्षयः ॥ ८ ॥ अगारं संश्रयो नीडं गेहं शरणमालयः । निलयो लयनं वेश्म गृहमोकः प्रतिश्रयः ॥९॥ गृहस्योपरिभूमिर्या हयं तत् परिकीर्तितम् । तस्यारोहणमार्गो यः सोपानं तत् प्रचक्षते ॥ १० ॥ काष्ठकैर्यत्र रचितं स्थूणयोरधिरोहणम् । सा निःश्रेणिरिति प्रोक्ता सोपानैर्विपुलैः पदैः ॥ ११ ॥ स्मृतः काष्ठविटकोऽसौ यत् काष्टैः संवृतं गृहम् । सुधालिप्ततलं हर्म्य सौधं स्यात् कुटिमं च तत् ॥ १२ ॥ वर्षाभयेन या छन्ना तालशौकदलादिभिः। स्मृताभिगुप्तिरन्तस्था सर्वोपरि गृहस्य सा ॥ १३ ॥ वातायनं तु भित्तीनामवलोकनमुच्यते । लघुवातयनो यः स्यादवलोकनकं हि तत् ॥ १४ ॥ हय॑स्य मध्ये यच्छिद्रं स उलोक इति स्मृतः । हम्येमाकारकः स स्यात् कण्ठा हम्येतलस्य या ॥ १५ ॥ वितर्दिकाष्टमाला स्यात् सर्वतश्छेदमूलगा । तत्स्तम्भेषु मृगा ये तु ते स्युरीहामृगा इति ॥ १६ ॥ नियुहो हHदेशाद् यः काष्ठानामुपनिर्गमः ।
वलीकमिति विज्ञेयं काष्ठं छेदा विनिर्गतम् ॥ १७ ॥ १. 'दकम् ', २ 'को', ३. 'शालद' क. पाठः । ४. 'हार्यः प्रा' ख, पाठः ५. 'ठो', ६. 'यः', ७. 'श्छद', ८. 'शाप्रका' क. पाठः।
"Aho Shrut Gyanam"