SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ८८ समराङ्गणसूत्रधारे छन्नैश्चतुर्भिः पाधैर्यत् तच्चतुश्शालमुच्यते । त्रिभिस्त्रिशालं तत् प्राहुभ्यां तत् स्याद् द्विशालकम् ॥ १८ ॥ एकशालकमेकेनच्छन्नेन गृहमुच्यते । गृहमेकं तु यच्छन्नं सर्व शालेति सा स्मृता ॥ १९ ॥ शालानां यत पुनमध्यं वापी पुष्करिणी च सा। संछन्ना (चासा)पि यस्य स्यात् तद् गर्भगृहमुच्यते ॥ २० ॥ गृहे महाजनस्थानं त्रिकुड्यं यत् प्रकल्पितम् । उपस्थानं तदताहुः स्याचोपस्थानकं लघु ॥ २१ ॥ प्रासादस्तु स एव स्यादल्पा प्रासादिका स्मृता । दीर्घप्रासादिका यासौ वलभीत्यभिधीयते ॥ २२ ॥ शालाग्रे वलभी या स्यादलिन्देति वदन्ति ताम् । शाला विना तु वलभी वलभेति निगद्यते ॥ २३ ॥ अल्पाल्पास्तु चतुष्कुड्या ये तेऽपवरका मताः ।। गृहे चाभ्यन्तर्रस्थानं शुद्धान्त इति कीर्त्यते ॥ २४ ॥ प्रतोली तां विदुलोकः सुरगामिव यां वसेत् ।। सा कक्षेत्युदिता तज्ज्ञैर्यदवस्थान्तरं गृहे ॥ २५ ॥ यदुपस्थानकं नाम ये चापवरकास्तथा । ते कोष्ठका या तु कण्ठा कुड्यं भित्तिश्चयश्च सा ॥ २६ ॥ भेक्तशाला भवेद् या तु तन्महानसमुच्यते । यच्छन्नं द्वारदेशे तु तमाहुद्वारकोष्ठकम् ॥ २७ ॥ प्रवेशनमिति प्राहुरनिर्गमनं तथा । जलनिर्गमनस्थानं विज्ञेयमुदकभ्रमः ॥ २८ ॥ भवनस्याङ्गणं यत्तु तदाहुभेवनाजिरम् ।। वनाजिरं वनमही त्वाश्रमाजिरमाश्रमे ॥ २९ ॥ उत्तरोदुम्बरस्याधः श्लिष्टी मध्ये च कुंड्ययोः । तज्ज्ञास्तां देहलीत्याहुः कपाटाश्रयमेव च ।। ३० ॥ १. 'छि', २. 'सर्वशा' क. पाठः । ३. 'भ्येति विधीयते ' ख, पाट: । ४. २', ५. 'मुक्तिशा' क. पाठः । ६. 'य उद', ७. पिण्डयोः' ख. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy