________________
८६
समराङ्गणसूत्रधारे
ब्रह्मस्थाने च कुर्वीत ब्रह्मावर्त्तं विचक्षणः । ब्रह्मणोऽनन्तरं प्राच्यां भवेद् दैवतमर्यमा ॥ २०७ ॥ na यन्त्रस्य पादौ स्तः समुच्छ्रायेण षटेप (मौ दौ ) । तस्यैव पश्चिमे भागे मित्रो भवति देवता ॥ २०८ ॥ ततः प्रभृति यन्त्रस्य + + वेधो नतो भवेत् । पूर्वापरं च निम्नं स्यादेष यन्त्रविधिः स्मृतः ॥ २०९ ॥ यन्त्रस्य पश्चिमे भागे वरुणो दैवतं भवेत् । वरुणस्य पदान्ते च वंशस्थे द्वे कुमारिके ।। २१० ।। खानिले(?)चतुरो हस्तान् दशहस्तोच्छ्रिते च ते । रुद्रस्थाने च कर्तव्या कुमारी सुप्रतिष्ठिता ।। २११ ॥ सोमयोगे चतुर्थी स्यादापभागे च पञ्चमी । षष्ठी च सवितुर्भागे यमभागे च सप्तमी ॥ २१२ ॥
इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे इन्द्रध्वज निरूपणं नाम सप्तदशोऽध्यायः ॥
अथ नगरादिसंज्ञा नामाष्टादशोऽध्यायः ।
नगरं मन्दिरं दुर्गं पुष्करं साम्परायिकम् । निवासः सदनं सद्म क्षयः क्षितिलयस्तथा ॥ १ ॥ यत्रास्ते नगरे राजा राजधानीं तु तां विदुः । शाखानगरसंज्ञानि ततोऽन्यानि मचक्षते ॥ २ ॥ शाखानगरमेवाहुः कर्वटं नगरोपमम् । ऊनं कर्वटमेवेह गुणैर्निंगम उच्यते ॥ ३ ॥ ग्रामः स्यान्निगमादूनो ग्रामकैल्पो गृहस्त्वसौ । गोकुलावासमिच्छन्ति गोष्ठमल्पं तु गोष्ठकम् ॥ ४ ॥
१. 'ट्य ', २. ' न्द्रसंपदाध्या ', ३. कल्पग्रह ' ख. पाठः ।
6
"Aho Shrut Gyanam"