________________
इन्द्रध्वज निरूपणं नाम सप्तदशोऽध्यायः ।
प्रभिन्नकरटा नागा बृहन्तस्तोयदा इव । अदीनाथ स्वतन्त्राच नृपतेर्विजयावहाः ।। १९४ ।। आलिखन्तः खुरैः क्षोणीं दक्षिणैर्हष्टचेतसः । हेषमाणा हयाचापि शंसन्ति नृपतेर्जयम् ॥ १९५ ॥ सतडिद्गर्जिताम्भोदा दृष्टिज्जायते तदा । महीपतेर्जयं विद्यात् सुभिक्षं क्षेममेव च ।। १९६ ॥ अथार्धरात्रे सम्प्राप्ते रोहिण्यां दशमेऽहनि । शक्रस्य पातमिच्छन्ति मुनयः प्रतिवत्सरम् ॥ १९७ ॥ ततः समाजे निर्वृते शक केतौ प्रतिष्ठिते । गन्धतोयैव पुष्पैश्च विदधीताम्बुसेवनम् ।। १९८ ॥ अमेयैर्वखण्डैर्वा भस्मकेशास्थिकर्दमैः ।
यदा क्रीडन्ति मनुजा दुर्भिक्षं जायते तदा ॥ १९९ ॥ विमाः प्राच्यां विल(म्पे ? म्बे ) युः पतन्तं वासवध्वजम् | सुभिक्षं क्षेममारोग्यमन्यथा स्याद् विपर्ययः || २०० ।। अष्टाङ्गको ध्वजा यो विशेषः सोऽथ कथ्यते । पुरे ब्रह्मपुरात् प्रायामिन्द्रस्थानं विधीयते ॥ २०१ ।। मात्राशयेन हस्तेन प्रमाणं तस्य कीर्तितम् । चतुःषष्टिसमायामं चतुरश्रं समन्ततः ॥ २०२ ॥
एकाशीतिपदेनैव भजेत् क्षेत्र विभागतः । क्षेत्रस्यार्थेन कुर्वीत ध्वजायामं प्रमाणतः ॥ २०३ ॥
८५
ततो वृद्धिर्विधातव्या हस्ते हस्तेऽङ्गुलं बुधैः । अर्धागुलं वा वृद्धिः स्याद् ध्वजस्येन्द्रस्य कुत्रचित् ॥ २०४ ॥ तावद् वृद्धिर्विधातव्या यावत् क्षेत्रसमोऽङ्गुलैः । ततः प्रमाणमाद्यं यत् तत् पुनर्विनियोजयेत् ॥ २०५ ॥ प्रमाणमङ्गुलैः केतोः स्याच्चत्वारिंशता मितम् । तस्य संवत्सरे वृद्धिः कर्तव्या द्व्यङ्गुलैर्बुधैः ॥। २०६ ।।
१. 'शत ', २. 'म्बुसेचनम् ' ख. पाठः । ३. 'प्राक्तेर्विल' ख' प्राच्यां बिलुपे ' क. पाठः ।
"Aho Shrut Gyanam"