SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे अष्टौ च ककुभो मूर्ताः प्रवृत्ताश्चाप्सरोगणाः । सग्रहास्तारका मेघाः स्फीता नद्यस्तथाब्धयः ॥ १८१ ॥ वाप्यः पङ्केरुहच्छन्ना हंसवन्ति सरांसि च । फलपुष्पावतंसानि वनान्युपवनानि च ॥ १८२ ।। देवतायतना(न्याद्यन्यट्ट)गोपुराणि पुराणि च । भवनान्यतिशुभ्राणि शयनासनवन्ति च ।। १८३ ॥ प्रहृष्टाः पार्थिवा भृत्या बलवाहनशालिनः। पौरा जानपदा लोकाः क्रीडाभाजः कुमारकाः ।। १८४ ॥ चत्वारो मुदिता वर्णा नटनर्तकशिल्पिनः । सगोबजलतागुल्मद्रुमौषधिभृतो नगाः ॥ १८५ ॥ मृगपक्षिगणाः शस्ता मङ्गलान्यखिलानि च । विचित्रापानवसुधाः फलभक्षाश्च पक्षिणः ।। १८६ ।। यथानिवेशं शोभन्ते तदा देशे पुरेऽपि च । क्षेमारोग्यसुभिक्षाणि जयं राज्ञश्च निर्दिशेत् ॥ १८७ ॥ एतेषां कुट्टने पाते छेदे नाशेऽथवा हतौ । प्लोषे वाप्यशुभं वाच्यं यथायोनि यथादिशम् । १८८ ।। स्थिते वा पतिते वापि चित्रपट्टे भुवस्तले । उपप्लवो नरेन्द्रस्य भवेजनपदस्य च ॥ १८९ ॥ राजते यद्यलङ्कारः सकलो यावदुत्सवम् । अनस्तोऽविप्लुतश्चोर्वी तदा कृत्स्ना जयेन्नृपः ॥ १९० ॥ नटनर्तकसङ्ग्रेषु प्रनृत्यत्सु पठत्सु च । शुभे शुधं समादेश्यमितरस्मिन्नशोभनम् ॥ १९१ ।। ये वर्गाः सम्पदृष्यन्ति मङ्गल्या गजवाजिनः । सुवेषचेष्टालङ्काराः शुभं तेष्वादिशेद् ध्रुवम् ॥ १९२ ॥ अमडैलैषिणो ये स्युर्विकृता दीनचेतसः । पुरुषा योषितो वापि निर्दिशेत् तेषु वैशसम् ॥ १९३ ॥ १. 'राज्ये विनि', २. 'स्वपि ' क. पाठः । ३. 'ङ्गल्यैषि' ख. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy