________________
इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । होमे वोत्सर्पयेत् पीठं दह्यमानो(?)यदाग्निना । भूम्येकदेशनाशः स्याल्लाभः स्यादुपकर्पणात् ॥ ॥ ११७ ॥ सर्वतो वाप्यगाधो यः स वर्धयति पार्थिवान् । यां दिशं यान्ति च ज्वालास्तस्यां विजयमादिशेत् ॥ ११८ ।। दुर्वर्णाशुचि दुर्गन्धि मक्षिकाखुविडम्बितम् । आज्यं राज्यच्छिदे प्राहुहूयते यच्च भस्मनि ॥ ११९ ॥ हीनाधिकप्रमाणाश्च विदीर्णा धुणभक्षिताः । वातरुग्णद्रमोत्थाश्च समिधोऽर्थक्षयावहाः ॥ १२० ॥ सगर्भाश्च सपुष्पाश्च विच्छिन्नाग्रास्तृणान्विताः। कुवेन्त्युपद्रवं दभो दुष्पलूनाश्च ये तथा ॥ १२१ ।। दुष्टानि पांसुकीर्णानि कीटजर्जरितानि च । बीजानि बीजनाशाय स्युरपुष्टानि यानि च ॥ १२२ ॥ माल्यं विगन्धि अम्लानं न पीतं न सितं च यत् । कीटैः खण्डितपीतं च न जयाय न वृद्धये ॥ १२३ ॥ विस्रावीण्युद्धतान्युग्रखण्डितस्फुटितानि च । दुर्भिक्षरोगकारीणि प्राहुः पात्राणि सर्पिषः ॥ १२४ ॥ अशुचौ पतिते च स्यान्मक्षिकाकीटदूषिते । बलौ च शक्रभक्ते च झुन्मारः केशभाजि च ॥ १२५ ।। यथोदितान्यरूपाणि सर्पिरादीन्यनुक्रमात् । भवन्ति राष्ट्रपुरयोर्भयाय निखिलान्यपि ।। १२६ ।। वितीर्य गन्धमाल्यादीन् देवताभ्यों यथादिशम् । पुरोधाः स्थपतिर्वाथ प्रीतचित्तः क्षिपेद् बलिम् ॥ १२७ ॥ ध्वजनैर्ऋतदिग्भागे द्विजमुख्यानुपस्थितान् । शीलवृत्तयुतान् भूरिगन्धमाल्य: स्वलङ्कृतान् ॥ १२८ ॥ वृद्धान् षट्कर्मनिरतान् सुहृदो वेदपारगान् । मनःप्रियान पूर्णगात्रान् समर्थान् सर्वतः शुचीन् ।। १२९ ।। १. 'केशैश्चैव विदूषिते', २. 'ल्यैरल' क. पाठः ।
"Aho Shrut Gyanam"